SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ३७४ पृथगेव तथा कल्प्यं स्थानं माणवकादिनाम् ॥ ९ ॥ पितॄणां स्थानमन्यच्च कीर्तितं तन्त्रपारगैः । योषितां भोजनस्थानं पृथगेव प्रकल्पयेत् ॥ १० ॥ भोजनस्थलं तु पृथगेव स्थापनीयम् । न मानव भोजनागार एव तान् भोजयेदिति भावः । तच्च यतीनां भोजनस्थानं तावन पृथक चतुरश्र वेदिकारूपं अथवा कोणरूपं मण्डलाकारं वा वैदिकास्थानं प्रकल्प्य तदुपरि एणाजिनं च स्थाप्यमिति मतिः । एवं वेदशास्त्राभ्यसनशीलानां विद्यार्थिनां बहूनां भोजनस्थानं क्षुद्रशालारूपम अथवा महाशालारूपमङ्गणचतुष्कादियुतं यथावटुसंख्यं वैशाल्यादियुतन कार्येन ॥ एवं व्रतश्राद्धादिदिनेषु आवाहनीयपितॄणां वम्वादिरूपाणां श्रोत्रियब्राह्मणानां भोजनस्थानं शुद्धस्थले समुचिते पृथगेव कार्यम् । तच्च चतुरश्रमासनं वा यथास्थलविभवमासनं कल्प्य - मिति समयः न मण्डलाकारकोणाकारकल्पनमेषां शुद्धये चेति । इदञ्च श्राद्धनिमन्त्रितत्राह्मणभोजनस्थलं एकाङ्गणयुतम, अथवाऽङ्गणद्वयातिभासुरं स्तम्भचतुष्कसहितमथवा शालारूपं कल्पयित्वा तस्य दक्षिणाननमेत्र स्थापयेदिति पितृतृप्तिकार्यज्ञाः शिल्पतन्त्र पारङ्गताश्च ॥ एवं योषितां भोजनशालाऽपि पृथगेव स्थाप्या । तत्कल्पनं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy