SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ अथ अन्तर्भवनलक्षणनिरूपणं नाम ॥ एकविंशोऽध्यायः ॥ प्रासादेष्वपि हर्म्येषु धनिनां भवनेषु च । विविधेष्वपि निर्माणेष्वपि मानवसद्मसु ॥ १ ॥ शालास्वपि क्वचित्कल्प्य मन्तर्गेहं विशेषतः । हस्तादिभिर्यथा देही गेस्तत्फलमाप्यते ॥ २ ॥ ॥ एकविंशोऽध्यायः ॥ - अथास्मिन्नेकविंशाध्याये राजकीयप्रामादभवनमानव मदनादिनिर्माणेषु बहुविधेषु कल्पनीयस्यान्तर्गेहस्य लक्षणं प्रतिपादयितुमादौ तत्स्थापनयोग्यस्थलं निर्दिशति - प्रासादेष्वित्यादिना । अव मानववासार्ह स्थलेष्वेवान्तर्गेहलक्षणमुक्तं, न देवालयनिर्माणष्विति प्रथमतो बोधनाक्रमः । राजकीयप्रासादेषु हर्म्येषु धनिकानां विविधेषु वासभवनेषु अन्येष्वपि विविधेषु मानवगृहेषु चत्वरेष्वेकादिशालासु वैवाहिकशालासु विशालशालादिभासु बह्रीषु शालासु च सलक्षणमिदमन्तर्गेहं शिल्पी स्थापयेत् || , - इत्थं स्थलप्रदर्शनानन्तरं तादृशान्तर्गेहकल्पनफलमाह - हस्तादिभिरिति । देही मनुष्यः करचरणाद्यद्वैर्बहुविधं कार्य सुखेन संपादयति, तद्वदेवैतादृशान्तभवनादिना पाकादिकार्योचिततत्तद्द्रव्यवर्गस्थापनद्वारा महत्फलं भवतीति विदितमेवेदम् । B. 8. 46
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy