SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ अथायुधशालालक्षणपुस्तकशालाल भणनिरूपणं नाम विंशोऽध्यायः ॥ तत्र प्राथमिकमायुधशालालझणम् ॥ देवप्रमादनप्राप्ति: जयश्रीवर्धनं तथा । आरोग्यवर्धनं नित्यमायुधादिनिरीक्षणात् ॥ १ ॥ तम्माद्भूपतिना स्थाप्यमायुधागारकल्पनम् । प्रासादमध्यभागे वा न्यायशालासमीपतः ॥ २॥ ॥ विंशोऽध्यायः ॥ अथायुधशालाल झण कथनात्मक विशाध्यायमारभने-देवप्रसादनप्राप्तिरित्यादिना। तत्रायुवशालास्थापनेन फरप्राप्तिमादी आविष्करोति - देवेति । प्रथमतो देवादीनामनुग्रहप्राप्तिस्तद्वारा तदनु समरभूम्यादिपु विजयः, पश्चात्मप्रातराज्याभिवृद्धिः, सुतादि. श्रेयः परम्परा च । किञ्च प्रत्यहं ताहशायुधादीनां दर्शनेनारोग्यवृद्धिरायुद्धिरित्यादिश्रेयांसि भवेयुरिति शास्त्रकाराणामनुग्रहोपदेशपरिपाटी । नात्र सन्देहः कार्य इति भावः । तस्मात् भवियकुलोद्भवो भूपालः स्वस्य स्वकुटुम्बस्य प्रजानां चाभिवृद्धये आयुधशालास्थापनमवश्यं कुर्यादित्युक्तं भवति ॥ कुत्र वा स्थाप्येत्यत्राह -प्रासादेति । भूपालस्य
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy