SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३०९ अथ सिलासन लक्षणम् ॥ सिह्नासनं चक्रवर्तेः क्षत्रियाणां च कीर्तितम् | भद्रासनन्तु सामन्त भूपालानां निगद्यते ।। २३ ॥ कूर्मासनं नैष्ठिकानां यतीनामपि योगिनाम् । वीरासनं सैन्यपतेर्भूष्योपरि महीभुजः ॥ २४ ॥ मानासनममात्यानां गुरूणां सुधियामपि । विजयासनमीशस्य युवराजस्य कीर्तितम् ।। २५ ।। एतावता प्रबन्धेन सार्वभौमादिभूपालानां न्यायशालालक्षणमुपपाद्य प्रसक्त्याऽत्र सिझासनलक्षणमप्याह - सिह्नासनमित्यादिना । सिह्नाकृतिना कल्पनेन धारितमासनं सिद्धासनमित्यर्थः । तच सिह्यासनं चक्रवर्तेः क्षत्रियाणां तत्कुलप्रसूतानां मूपालनधुरन्धराणामेवाक्रमणस्वाम्यं भवति; न त्वन्यैः क्षत्रियेत्तर - कुल जातैर्भूमिपालन नियुक्तैरित्यर्थः ॥ सामन्तभूपालानां भद्रासनमेत्र स्थाप्यम् । नैष्ठिकानां परिव्राजकाणां नियमवताच कूर्मासनमुक्तम् । सेनापतेर्वीरासनं स्थाप्यम् । तथैव रिपुसेनाविजयसमनन्तरं संप्राप्तविजयलक्ष्मीकस्य भूभुजा मुहूर्तकालं वीरासनं स्थापयित्वा बिरुदावलिस्वस्तिपठनादि कारयेदिति भावः । सचिवानां कुलगुरूणां तत्तच्छास्त्रेषु कलासु वा संप्राप्तनैपुण्यानां विदुषा नानासनमुक्तम् । वर्धिष्णोः
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy