SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३०१ मध्यशालाप्रमागन्तु भानुदण्डकमीरितम् ॥ १३ ॥ तदर्थं वा तदर्थं वा पूर्वशालाप्रमाणकम् । उपशाला भद्रकाख्यैरन्वितं च समन्ततः ॥ १४ ॥ किञ्च सार्वभौमादिसामन्त सुपात्रधिकं परम्परया किश्चित्किनिदधिनेतृत्वविरुद्वादित्यादिलक्षणभेदेऽपि स्वेषु स्त्रेषु देशेषु तेषां • राज्ञामेतदशलक्षणान्वितां मुख्यां न्यायशालां कल्पयेदिति शास्त्र - कारेणात्र प्रतिपादितम् । किञ्च तत्रापि सार्वभौमस्य न्यायशालायां तु शालान्तरभेदद्योतकर सशिखरविमानादिकिचिद्विच्छित्तिविशेषसहितः कल्पनादिः कार्य इति । न तु कल्पनशैल्यादिष्वित्याशय आविष्कृतो बोध्यः | पट्टधरयुवराजादिभूपालानां किन न्यायशालायान्तु विमानरचनादि न कार्यमिति च निषेधस्तत्क्रमद्योतक इति समयः । नात्रापि मतान्तरं व्याख्यायते । कुतः ? ग्रन्थविस्तरभयात अर्थिनां हिताय च । तस्मात्सर्वत्र तादृशन्यायशालायारसमन्तत उपशालां भद्रशालाच यथास्थलविभवं स्थापयित्वा मध्यभागे मध्यशालाख्ये भूपदण्डद्वादशकवैशाल्ययुतं तदनुकूलायामादियुतञ्च निर्माणं मुखीकरणादिमञ्जुलं निर्मापयित्वा तत्पुरोभागे पूर्वशालाख्यं निर्माणश्च तदर्धप्रमाणोपेतं, तदर्भप्रमाणोपेतं वा स्थापयेदिति क्रमः ॥ १४ ॥ "
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy