SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ अथ नृपप्रासाददुर्गपरिखालक्षणकथनं नाम त्रयोदशोऽध्यायः ॥ प्राकारदुर्गयोर्मध्यं चतुःपञ्चपदण्डकम् । शालया सहितं वापि रहितं मानमीरितम् ॥ १॥ • ॥ त्रयोदशोऽध्यायः॥ अथ नृपप्रासाददुर्गपरिखालक्षणकथनात्मकं त्रयोदशाध्यायमारभते - प्राकारदुर्गयोरित्यादिना । पूर्वोक्तभूपालभवनवास्तुसीमनि निर्मितायाः प्राकारभित्तेः परिखायाश्चान्तरालिकभस्थलं स्वल्पप्रमाणं करणीयमित्युपदेशः । किमर्थम ? परिखायास्तादृशप्राकारभित्तेश्चात्यन्तं दाापादनाय शोभायै चेति । किञ्च मतान्तरमत्र नोक्तमिति विवेकः ।। अपि च तादृशान्तरालिकस्थलं तु वैशाल्ये चतुःपञ्चष. दण्डकप्रमाणवत , तादृशपरिखास्वरूपानुगुणशालाकल्पनेन युतं वा तेन रहितं वा स्थापनीयम । 'शालया सहितं वापि रहितं वा' इति विकल्पस्तु भूपालेच्छाधीन इति केचित् । तचिन्त्यम ॥ वयन्तु चतुर्मुखपूर्वमुखादिग्रामपरिखानिर्माण तादृशी शाला कल्पनीयेति न नियमः । पद्मकादिनगरपरिखानिर्माणस्थलेऽवश्यं कल्प्येत्येवम् । किं अर्थकल्पनं तत्र ? पचनस्वारस्यद्योतकमिति । विषयस्यास्य नन्दिवास्तुकाश्यपादिग्रन्थेष्वनीकृतत्वाचेति वयं न प्रमादनिर्भराः॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy