SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २११ द्विशतं त्रिशतं वापि चतुःपञ्चशतानि वा ॥ ४ ॥ षट्शतं वा सप्तशतं शताष्टावधि भाषितम् । स्थलानुकूलं कथितं भपालस्येच्छयाऽथवा ॥ ५ ॥ अथवा मूर्तिभेदेन देवगेहप्रमाणकम् । किश्च स्थलवैपुल्यादिके भूपालादिनिर्मातुरिच्छायाश्च सत्यां तदा वैशाल्ये शतदण्डप्रमाणोपेतं वा द्विशतदण्डप्रमाणोपेतं वा त्रिशतदण्डप्रमाणोपेतं वा चतुश्शतदण्डप्रमाणसहितं वा पञ्चशतदण्डमानोपेतं वा षट्शतदण्डमानोपेतं वा सप्तशतदण्डमानोपेतं वा अष्टशतदण्डमानोपेतं वा तदनुकूलदैर्घ्यसहितञ्च स्थापयेदिति विकल्पः ॥ किञ्च शताष्टकदण्डावधिकमेव वैशाल्यं देवागारस्येति च निर्णीतं प्राचीनैर्मुनीश्वरैः । तच्चात्यन्ताधिकप्रमाणवत् अशक्यकार्यमिति अर्वाचीनाः । इत्थं दण्डप्रमाणेन देवागारलक्षणमानमुक्तं शास्त्रकारेण ॥ अथापि प्रन्थान्तरेषु काश्यपादिमतान्तरेषु च तत्तद्देवमूर्त्यादिभेदानुगुणं अगारप्रमाणं कार्यमित्युक्तत्वादिदमप्यङ्गीकृत्याहअथवा मूर्तिभेदेनेति । मूर्तीनां भेदस्तावत्प्रायशो लोके दशतालादिमानवत् । पराक्रमप्रधानानां किरातवृषभारूढरघुनाथादिदेवबिम्बानां दशतालमानेन कल्पनमुक्तम् । दयाशान्त्यादि.
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy