SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २०६ मध्यस्थराजभवनं सालद्वादशकावृतम् । मन्त्र्यादिभवनोपेतं चिरसंभारपूरितम् ॥ ४३ । बहुभिर्दुर्गकूटाख्यैः कल्पनैश्च समन्वितम् । वराकनसमोपेतं बहिश्शालासमन्वितम् ॥ ४४ ॥ प्रदत्वात् । केन प्रकारेण ? तादृशसुरङ्गादिवर्त्मना वैरिसैनिकनिरसनादिबहुविधविजयकार्योपयोगिभटादिसञ्चरणविशेषात् । एवमेव नगरस्य वीथीकूटप्राकारमुखभागस्य मध्यभागस्थितस्य रानभवनस्य च सुरङ्गाद्याच्छादनमार्गकल्पनमाप्तजनवर्गविरचय्य तत्रेतरजननिरासाय योधादींश्च स्थापयेदिति भावः ॥ किञ्चदं युद्धदुर्ग प्राकारद्वादशकेन क्रमेण किञ्चित्किञ्चि. द्धीनतुङ्गादिप्रमाणकेन संवृतकृत्वा पूर्वोक्तरीत्या प्राकारपञ्चके स्थले भूपालसचिवसेनेशादिभवनानि कृत्वा अवशिष्टेषु प्राकारस्थलेषु इतरजनानां चातुर्वर्ण्यानामावासस्थानानि च कारयेदिति भावः । किश्चैवमत्र युद्धदुर्गनगरे ब्रीहितण्डुलाढकादिसंभारादीश्चिरकालपोषणकारिणस्तत्र तत्र निषद्यादिसमुचितस्थलेषु संगादयेत पुञ्जीकुर्यादित्यर्थः ।। किञ्चवमत्र युद्धदुर्गे इतरजनानां पौरजनानामावासभवनादिकल्पनं तु नृपेच्छाधीनमिति शिल्पसमयः । किञ्च पूर्वोक्तेपूत्तुङ्गप्राकारद्वादशकभित्त्यादिभागेषु दुर्गकूटाख्यं कल्पनश्च
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy