SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २०४ युग्म संख्यकवाटादियुक्तभागत्रयोज्ज्वलम् । ससैन्यं सायुधागारं चिरसंभार संभृतम् ॥ योधयंत्र स्थलोपेतं प्रभुदुर्गमुदीरितम् ॥ ३९ ॥ अथ द्वादशस्य युद्धदुर्गस्य लक्षणम् ॥ भूपालैर्देश सीमान्ते दुष्प्रवेशस्थलेऽथवा । युद्धार्थं कल्पितं दुर्गं युद्धदुर्गमितीयते ।। ४० । । अपि च तादृशमुखद्वारस्य पूर्वभागेऽन्तर्भागे बहिश्व स्थानत्रयस्थलेष्वपि द्विद्विकबाट सहितद्वारान्तर्द्वारिकल्पनाविशेषसहितत्वमपि अरिलाभेद्यरक्षणार्थं चेति । तत्संयुतं तादृशमुखद्वारमेकमिति यावत 1 किञ्चास्य दुर्गस्य मध्यमभागे राजभवनसमीपे वा समुचिते स्थले यन्त्रनिर्माणस्थलमायुधनिर्माणस्थलं चिरकालोपभोग्य बहुविध संभारभरितसेनानिवेशम्थलं योधानामावासस्थलं च युक्तया शिल्पी कल्पयेदिति भावः || एतादृशलक्षणान्वितं प्रभुदुर्गनामकमिति पूर्वेणान्वयः । पूर्वोकदुर्गगणाद स्यैत । यभेदाः, भेदान्तराणि च स्वयमेवोह्यानीति प्रभुदुर्गलक्षणार्थ: प्रतिपादितः ।। ३९ ।। Wachs अथ द्वादशस्य युद्धदुर्गस्य लक्षणमाह- - भूपालैरिति । भूपालैस्सार्वभौमादिभिस्स्वदेश सीमान्ते वा दुष्प्रवेश्ये स्थलान्तरे वा प्रायशो युद्धार्थस्कृतं दुर्गं युद्धदुर्गमिति व्यवह्रियते । कीद्दश ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy