SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २०० दृढार्गलसमोपेतकवाटद्वयशोभितम् ॥ २९ ॥ सोपकुड्यां दुर्गभित्तिं रचयेदश्मनिर्भराम् । स्थलानुकूलतः स्थाप्यमन्यावासस्थलादिकम् ॥ ३०॥ अथ नवमस्य कूर्मदुर्गस्य लक्षणम् ॥ प्रलोभनाय शत्रूणां स्तम्भनाय च युक्तितः । वनमध्ये गिरस्सानौ कल्पितर्मदुर्गकम् ॥ ३१ ॥ द्विमुखदुर्ग चतुर्मुखदुर्गश्चेति । पुरन्दरदिशि स्थापितेनैकेन मुखद्वारेणो. पेतं एकमुखदुर्गमिति दक्षिणोत्तरमुखयोः स्थापितेन मुखद्वारद्वयेनोपेतं द्विमुखदुर्गम् । प्राच्यादिचतुर्दिङ्मध्यभागे समचतुस्सूत्रं वा स्वस्तिकाकाररीत्या परस्परं किंचिद्वयत्यस्तस्थलस्थितं वा स्थापितेन मुखद्वारचतुकेणोपेतं चतुर्मुखदुर्गम इत्यन्वर्थनाम बोध्यम् । एतादृशदुर्गत्रयेऽपि पूर्वोक्ताकारपञ्चकाद्यावृतत्व मवश्यं करणीयमिति शिल्पसमयः ॥ अपि च तादृशद्वारं तादृशार्गलमधिष्ठानादिकबाटद्वयसहित च कल्पयित्वाऽत्यन्तदाढ्यादिकारिणी मुखभित्तिं दुर्गभित्तिमिलितां कारयित्वा दृढशिल्पावलीभिः कवचितमुखभद्रसहितञ्च स्थापयेत् । यदि स्थलवैशाल्यादिविभवः तदनुकूल मत्र दुर्गे क्षुद्रनगरलक्षणान्वितानि वा महानगरलक्षणान्वितानि वा इतरजनावासभवनादीनि च यथाक्रमं स्थापयेदिति संक्षेपेण लक्षणमुक्तं भवति ॥ ३० ॥ अथ कूर्मदुर्गलक्षणमाह ..~- प्रलोभनायेति । सार्वभौमादि.
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy