SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १८९ मध्यस्थदेवप्रासाददेवमन्दिरभूषितम् । मन्त्र्यादिपरिवाराणां भवनाद्यैस्समन्वितम् ॥४॥ प्राचीमुखं प्रकर्तव्यमथवोत्तरदिङ्मुखम् । भेटः खड्गधरैरन्यैस्समन्तात्संवृताङ्गणम् ॥ ५॥ भवन्ति । यथा तत्र तत्र देशेषु गिरिसानी वा गिरिमध्यभागे वा गिरिशिखरभागे वा कल्पितं नगरं गिरिनगरनामभाग्भवतीति प्रसिद्धिः । तादृशगिरिनगरस्य मध्यभागे कुलदेवतालयोपेतं भूपाल. भवन निर्मापणीयम् ॥ तच भवनं परितो यथास्थलप्राप्तवीथीनिर्माय तस्यां मन्त्रिसेनापतिप्रमुखानां राजकार्यधुरन्धराणां भूपबन्ध्वादीनां, योधादीनाश्च भवनस्थानादीनि प्रकल्पयेत् । किञ्चैवंरीत्या गिरिमध्यभागे रचितस्य नगरस्यास्य मुख्य द्वार प्राचीमुखमुदङ्मुखं वा कल्पनीयम् । किश्च नगरमभित: खगाद्यायुधधारिभिरिभटै रक्षिताङ्गणावृतपरिखावीथीयुक्तश्च स्थापयेदित्यर्थः । किश्चात्र गिरिदुर्गनगरे परिखाविधानकार्यमिति वक्तव्यमेव । कुत: ? नियमेनैतेषां नगराणां परिखोपेतत्वस्यैव मुख्याङ्गत्वादिति । तथापि पर्वतशिखरादौ यथाशक्ति गिरिदुर्गनगरमभितः परिखासालप्राकाराद्यावृताङ्गणं पूर्वोक्तरीत्या शिखाकोष्ठनलीकस्थापनाईस्थलयोधाच्छादनस्थलदृढकवाटाभेद्याधिष्ठानसहितं मति
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy