SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १७० दन्तके रजकादीनां किन्नरे लोहकारिणाम् ॥१६१॥ मीनके चित्रकाराणामाकाशे राजसेविनाम् । निलयान्कल्पयेच्छिल्पी वास्तुभूमिवशादिह ॥ १६२ ।। दौवारिके च सोमे च राजशालादिका मताः। विपणिश्रेणिका स्थाप्या मेषगन्धर्वभागयोः ॥ १६३ ॥ भूधरे भास्करे भागे विप्रदेवालयादिकाः । युक्क्यान्यत्कारयेच्छिल्पी यजमानेच्छयाऽथवा ॥ मेषगन्धर्वभागयोविहिततण्डुलादिबहुविधद्रव्यभरिताः विविधाश्च विपणी: स्थापयेत् । आग्नेयदिग्ग तदन्तकभागे प्रामकार्यकरपुरकार्यकरकुलालांबष्ठरजकादीनामावासादिकं कल्पयेत् । याम्यदिग्गतरोगशोषभागयोवैश्यानां शूद्राणामन्येषाश्च भवनादिकं स्थापयेत् । निर्ऋतिदिग्गतकिन्नरदेवभागे स्वर्णकारलाहकारतक्षकस्थपतिप्रमुखाना आवासादिकं कल्पयेत् ॥ किश्च वरुणदिग्गतभूधरभास्करभागयोः प्राकारगोपुरमण्टपतटाकादिसहितं देवालयं ब्राह्मणानामावाससदनानि च स्थापयेत् । वायुदिग्गतमीनकभागे चित्रकारवाद्यकारनटनर्तकादीनां आवासस्थानानि प्रकल्पयेत् । उत्तरदिग्गतदोवारिकसोमभागयोः बहुविधराजकार्यालयादीनां स्थानं विहितम् । एवमीशानदिग्गताकाशभागे राजसेविनां भृत्यानां योधानां च स्थानानि
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy