SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १६७ अन्याश्वानेकसंख्याकाः क्षुद्रवीथ्यन्वितास्तथा । पुरन्दरदिशि स्थाप्यं देवस्थानं सगोपुरम् ।। १५४ ॥ मध्यभागे निषद्यादीन् न्यायशालान्तु वारुणे । महापुरं प्रकर्तव्यमथवान्तिकभूमिषु । नानादेशागत जनै सङ्कीर्णश्च समन्ततः ।। १५५ ॥ अथाष्टादशस्याष्टमुखनगरस्य लक्षणम् ॥ वनमध्यगता वापि गिरिपार्श्वस्थितापि वा । खाष्टकनगर्यास्तु वास्तुभूर्वर्तुला मता ॥ १५६ ॥ वीथ्यः, दक्षिणोत्तरभागयोस्तिर्यग्वीध्याद्युपेता विंशतिषीध्यः प्रकल्प्या 1 किंच तत्र प्राच्यां सगोपुरदेव गृहम् मध्यभागे न्यायशालादिकांश्व यथाक्रमं गुहामुखे वा स्थापितं नगरं विपण्यादिशाला: वारुणे भागे स्थापयेदित्यर्थः । एवं गुहान्त सहस्रत्रयावधिकैरेव जनैरुपेतं भवेदित्याशयः ॥ अथवा गुहान्त गुहामुखे वा एतादृशनगरार्हस्थलालामे पूर्वोक्तरीत्या भूपालेच्छया तत्र गुहायां धनागारादीम् स्थापयित्वा गुहान्तिक भूभागेषु समुचितेषु नानाजातिसमाकीर्ण नामाशालासमेतं महामार्गयुतं बहुरक्षोपेतं महानगरं वा कल्पयेदिति विकल्पः ॥ १५५ ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy