SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १४३ न चात्र राजसदनं न दुर्ग नापि योपुरम् । नानाजातिजनाकीर्ण यथेष्टद्वारसंयुतम् ॥ १०० ॥ वीथीभिः क्षुद्रवीथीभिरनेकाभिस्समन्वितम् । पण्यशालासमोपेतं कुर्याच्छिल्पविशारदः । षट्सहस्राधिकजनै संयुतं बलदेवकम् ॥ १०१ ॥ तद्वास्तुवासिनां सर्वेषामपि प्राणिनां दुष्टज्वरादिपीडाराहित्यं, यथाकालवर्षमोसस्यादिसम्पदच वर्धन्त इति भावः || कि तादृशो देवानां स्थापनेन तादृशवास्तुदोष पीडाराहित्यादिकञ्च कामिकागमे स्कान्दादिपुराणेषु च उपपादितं द्रष्टव्यम् ॥ केचिदत्र नगरे करालीं कालों चण्डी मारी चल्लीमन्याश्च देवताः स्थापयेदिति । तत्सर्वं यथाविभवं यथास्थल सौकर्य यजमानेच्छाधीनमिति वयं वदामः ॥ किवात्र नगरे न राज सदनपरिखागोपुरादि कल्पननियमः । परन्तु यथास्थलविभवं यथेष्टस्थले नगरद्वारसमेतं बह्वीभिर्वीथीभिः क्षुद्रवीथीभिश्च समावृतं बहुविपणिशालासमेतं नानाजातिजनावासाई गेहादिलसितश्च स्थापयेदिति । जनता त्वत्र षट्सहस्रसंख्याधिकेति बलिदेवनगरलक्षणार्थः ॥ किन नगरमिदं न श्रोत्रियवासाहमिति केचित् । अन्ये
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy