SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ११६ एवं सङ्केतमानञ्च ज्ञेयं शिल्पक्रिया परैः । वासवात्सूत्रविन्यासो ब्राह्मणानां हितप्रदः ॥ ३६ ॥ याम्यात्तु सूत्रविन्यासः क्षत्रियाणां हितप्रदः । वारुण्यास्सूत्रविन्यासश्शुभदो वैश्यशूद्रयोः || ३७ ॥ देवतायतने शस्तस्सूत्र न्यासस्तु याम्यभाक् । शिल्पकार्यश्रद्धालुभिरिति । ३६ ।। माह् अथ सर्वेष्वपि नगरादिवास्तुषु कल्प्यमानं सूत्रप्रसारक्रमवासवादित्यादिना । तत्तन्निर्माणाय स्वीकृते समीकृते वास्तुस्थले सूत्रन्यासो वा दण्डन्यासो वा प्रथमतः प्राचीं दिशमारभ्य प्रतीचीदिग्गामी यथा भवेन तथा मानं कार्यमिति । अयश्च क्रमः ब्राह्मणगृहेषु कृतश्रेच्छुभप्रद इति समय: | क्षत्रियाणां भवनादिनिर्माणस्थलेपु सुत्रन्यासो वा दण्डन्यासो वा दक्षिणां दिशमारभ्योदोचीदिङ्मुखतया उदीचीदिग्गामि मानं कार्यम | अयश्च क्रमः क्षत्रियाणां जयादिशुभप्रद इति । वैश्यशूद्रयोर्गृहेषु वारुणीं दिशमारभ्य प्राचीं दिशं यथा मानदण्डो गात तथा मानङ्करणीयमिति । अयश्च क्रमः वैश्यानां शूद्रजातानाश्च क्षेमसम्पत्कर इति भावः ॥ ― किन सर्वेष्वपि मानवगृहेषु मन्दुरागोष्ठादिषु च याम्यदिग्गामी सूत्रन्यासो न श्रेयस्कर इति भावः । सोऽपि देवा
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy