SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ दण्डमानं भागमान गण्यमानमिति त्रिधा । सर्वेषु शिल्पकार्येषु तदुत्थं मानमीरितम् ॥ १९ ॥ तिर्यग्दामषु स्तम्भादिषु वा तादृशो_भागमानानुगुणमधःस्थले तत्र तत्र तिर्यसूत्रप्रमारणेन यन्मानं निम्नत्वोन्नतत्वरहितं समचत्वरादिभूमानश्च क्रियते तदिति । एवं सर्वेष्वपि शिल्पकार्येषु तावन्मानं पञ्चविधमेव भवतीत्यर्थः ।। ___ नन्वत्र मानपञ्चकं नोपपद्यते। प्रन्थान्तरेषु मतान्तरेषु षा मानसंख्याधिक्यवचनं तस्याप्येतन्मानपश्चक एवान्तर्भावात् । किश्चात्रानुपदमेव प्रन्थकर्ता प्रतिपादितगण्याख्यमान एव तादृशमानादेरप्यन्तर्भावादित्यलम ॥ १८ ।। एवं सर्वविधशिल्पकार्येष्वपि मुख्यत्वेन प्रतिपादितमिदं मानपञ्चकमपि दण्डमानेन वा भागमानेन वा गण्यमानेन वा मेयम् । किश्च पूर्वप्रतिपादितपरिपाट्या भूभित्तिस्तम्भादीनां दण्डेन मानम् । तत्र तत्र चित्रादिद्विमुखस्तम्भत्रिमुखस्तम्भादिषु, अन्येष्वपि कल्पनेषु स्थलान्तरषु कल्प्यमानकम्पवाजनगलक्षेपणपट्टिकादीनान्तु मानं दशादिभागेन मानं कार्यम । मण्डपादिषु निर्माणेष्वन्येष्वपि कल्पनेषु एकद्विव्यादिसंख्यागणनमेव कार्यम् । अस्य विशदार्थस्तु कस्यचिन्मण्ट पस्य वामभागे द्वादश स्तम्भा यदि कल्पिताखथैव दक्षभागे च द्वादश स्तम्भाः स्थाप्या
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy