SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आधस्तु निगमः प्रोक्तस्कन्धावारो द्वितीयकः । द्रोणकस्तु तृतीयस्स्याच्चतुर्थः कुब्जको मतः ॥ ३८ ॥ पदणं पञ्चमं षष्ठश्शिविरस्तु प्रकीर्तितः। ...............चारस्सप्तमो वाहिनीमुखः ॥ ३९ ॥ निगमादिनगर्यस्तु नृपभोग्या उदीरिताः। तत्र प्रथमस्य निगमनगरलक्षणम् ॥ वनमध्यगतो वापि गिरिसानुगतोऽपि वा ॥ ४० ॥ सदातोयातीरभाषा रक्षकैरभिसंवृतः । निगमो दुर्गसंयुक्तो वप्रेणापि समातः ॥ ४१ ॥ पादयिष्यमाणबहुविधनगरलक्षणोप बृह्मणभूतात्मकं निगमादिसप्तविधनगरलक्षणं प्रस्तौति - आद्य इति । तत्र प्राथमिको निगमः । द्वितीयस्कन्धावारनामकः । द्रोणकम्तृतीयः । कुब्जकश्चतुर्थः । पञ्चमः पट्टणनामभाक् । षष्टः शिबिरनामा । सप्तमस्तु वाहिनीमुख इति सप्तविधो नगरभेदः ।। ___ एवं सप्तविधभेदत्वेन प्रतिपादिता इमे नगरादयो न प्रामलक्षणेषु निवेशनीया, नापि पद्ममुखादिमहानगरलक्षणेषु । तस्मादिदं पृथक्त्वेन निगमादिलक्षणमेवं प्रतिपादितं ज्ञेयम् ॥ एवं भूननिगमनगरस्य वास्तुभूमिस्तावद्वनमध्यगताऽथवा गिरिसानुगता वा भवितव्या। निगमाख्यमिदं नगरं समन्ततः
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy