SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ५७ काळीभवनकेनापि प्राच्यां दिशि समन्वितम् ॥ ३५ ॥ वापीकूपादिकैर्युक्तं निष्कुटैश्च समावृतम् । दक्षिणोत्तरगा वीथ्यो द्वात्रिंशत्संख्यगा मताः || ३६ || प्राक्प्रतीचीगता वीथ्यष्पट्संख्याश्च (नियोजिताः) । तत्तत्स्थलवशात्क्षुद्रवीथिका च प्रकीर्तिता ॥ ३७ ॥ मटमण्टपसंयुक्तं वैद्यालय समन्वितम् । पक्षद्वयगृहोपेता वीथ्यस्तास्संप्रकीर्तिताः ॥ ३८ ॥ षट्सहस्रावधिजनैरावृतञ्च समन्ततः । नरपालालयेोपेतं न्यायवित्समया युतम् ॥ ३९ ॥ च कारयत् । विपुलमीशगह वारुण्यां, कालीभवन च प्राच्या दिशि स्थापयेत् । कालीभवनकेनेति कप्रत्ययेन ईशगेहापेक्षया देवीभवनस्य यदिमाने किञ्चिद्धीनत्वमुक्तमिति भावः । अपि चायं ग्रामस्सर्वत्र बहुभिर्वापीकू तदाकादिभिरारामैश्चोपेतः कार्यः 11 किमात्र प्रामे प्राक्प्रतीचीगताष्पडेव विपुला वीथ्यः ! दक्षिणोत्तरगाः प्रतोत्यस्तु द्वात्रिंशदिति वीथीनामुपवथीनां च संख्येति भावः । यत्यादीनामावासयोग्यो मठः, देवोत्सवोचितो मण्टपादिः, वैद्यशाला प्रसिद्धा, एतैरुपेतो भवति । किचात्र मामे पूर्वोक्ता अष्टत्रिंशद्वीभ्यस्सर्वा अपि पक्षद्वयगृहान्विताः कार्याः । उपवीथीनान्तु नेदं लक्षणमुपपश्चते । किमात्र पट्सह 8. 3. 8
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy