SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ अधिवासाय तान्न्यस्य माल्यगन्धार्चनादिभिः । रक्षणं कारयेद्धीमान्वास्तुशास्त्रविशारदः ॥ २७ ।। इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे द्रव्यसंग्रहणकथनं नाम चतुर्थोऽध्यायः ॥ मानान शकटानीत्वा, शुद्धदेशे स्थापयित्वा, संवत्सरावधि, षण्मासावधि, मासत्रयकालावधि वा तांस्तरुखण्डानधिवासाय स्थापयेदिति । अधिवासनं नाम छेदितानां तरूणां क्षीरादिशुष्कीकरणाय न्यसनमिति । तच द्विविधम । जलाधिवासनम् , स्थलाधिवासनश्चेति । केषाञ्चित्तरूणां जलाधिवासनं बलकरं भवति । अन्येषां तरूणां तु भूमौ प्रच्छायतलेऽधिवासनं बलकरम् । केषाञ्चित्तरूणामातपे न्यसनं बलकरमिति च विवेकः इति द्रव्यग्रहणविधानमुक्तं भवति ।। इष्टिकानिर्माणप्रकारशिलापरीक्षादिकं तु मया कृतायां शिल्पकलादीपिकाव्याख्यायां विस्तरशः प्रपश्चितम् । विस्तरभयान्नेह लिख्यते । अतस्तत्र द्रष्टव्यमिति ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां चतुर्थोऽध्यायः॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy