SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सम्यक्चारित्र-चिन्तामणि एकादशप्रकाशः सल्लेखमाधिकार मङ्गलाचरणम् सल्लेखनां स्वात्महिताय धृत्वा मुनीन्द्रमार्गाद विचला न जाता.। मुनीश्वरास्तेऽद्य सुकोशलाद्या विशन्तु मां स्वात्महितस्य मार्गम् ॥ १॥ अर्थ-जो स्वकीय आत्माके हितके लिये सल्लेखना धारणकर मुनिराजके मार्गसे विचलित नहीं हुए, वे सुकोशल आदि मुनिराज मुझे आत्म-कल्याण का मार्ग बतावे ॥१॥ आगे सल्लेखना की उपयोगिता बताते है यथा कश्चिद् विदेशस्यो 'नार्जयन् विपुलं धनम् । आयियासुः स्वकं देशं विवेशस्य नियोगत. ॥ २ ॥ तधनं सार्धमानेतुं समर्थो नैव जायते।। तदा संक्लिष्टचेता सन् हृदये बहु खिद्यते ॥ ३ ॥ तथाय मनुजः स्वस्य प्रयत्नात् सञ्चितार्थकः । प्रयियासुः पर लोकमतल्लोकनियोगतः॥ ४ ॥ तद्धनं सह सन्नेतुमसमर्थो यदा भवेत् । तदा दु.खेन सन्तप्तो विरोति कि करोम्यहम् ॥ ५ ॥ अनुभूय महाकष्टं वित्तमेतदुपाजितम् । साधं नेतुं न शक्नोमि प्रयासो मम निष्फलः ॥ ६ ॥ विलपन्त नरं दृष्ट्वा करुणाकान्तमानसः। विदेशस्याधिपः कश्चित तस्मै ददाति पत्रकम् ॥ ७ ॥ एतत्पत्र गृहीत्वा त्वं प्रयाहि स्वीयपत्तनम् । एतद्वित्त त्वया तत्रावश्यं प्राप्तं भविष्यति ॥ ८ ॥ एवं दयालुराचार्य परलोकं यियासवे। सल्लेखनाह्वयं पत्रं वस्वा वदति भूरिशः ॥ ९॥ एतस्पत्र प्रभावेण त्वमेतन्निखिलं धनम् । परलोके नियोगेन प्राप्स्यस्येव न संशय.॥१०॥ तात्पर्यमिदमेवात्र ोतल्लोकस्य वैभवम् ।। परलोके निनीषुश्चेत् कुरु सल्लेखनां ततः ॥ ११ ॥ १ ना पुरुष,
SR No.010138
Book TitleSamyak Charitra Chintamani
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherVeer Seva Mandir Trust
Publication Year1988
Total Pages238
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy