SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख संग्रह लामुत्पादयता प्रहतपटहढक्कागम्भीरध्वानेन घनाघनगर्जनानुकारिणा अस्याचितो विनोदनिर्गमः (१) खकीयां साञ्चलता () परनृपचेतोवृत्तिषु दातुमिवोचराविलोलप्रकटितराज्यचिहः (?) तुरङ्गमखरखुरोत्थितपांशुपटलमसृणितजलदसंचयानेकमत्तद्विपकरटतटगलितदानधाराप्रतानप्रशमितमहीपरागः। यस्य श्री चपलोदया खुरतरङ्गालीसमास्फालना निर्मिन्नद्विपयानपात्रगतयो ये मंचलञ्चेतसः । (?) तस्मिन्नेव समेत्य सारविभवं संत्यज्य राज्यं रणे भग्ना मोहवशात् खयं खलु दिशामन्तं भजन्तेऽरयः ॥ इदं कियद्भूतलमत्र सम्यक् स्थातुं महत्संकटमित्युदनम् । वस्यावकाशं न करोति यस्य यशो दिशां भित्तिविमेदनानि ।। अनवरतदानधारावर्षागमेन तृप्तजनतायाः धारावर्ष इति जगति विख्यातः सर्वलोकवल्लभतया वल्लभ इति । तस्यात्मजो निजभुजबलसमानीतपरनृपलक्ष्मीकरवृतधवलातपत्रनालप्रतिकूलरिपुकुलचरणनिबद्धखलखलायमानधवलशृङ्खलारवबधिरीकृतपर्यन्तजनो निरुपमगुणगणाकर्णनसमाह्लादितमनसा साधुजनेन सदा संगीयमानशशिविशदयशोराशिराशावष्टब्धजनमनःपरिकल्पनत्रिगुणीकृतस्वकीयानुष्ठानो निष्ठितकर्तव्यः प्रभूतवर्षश्रीपृथ्वीवल्लभराजाधिराजपरमेश्वरस्य प्रवर्धमानश्रीराज्यविजयसंवत्सरेषु वदत्सु । चारुचालुक्यान्वयगगनतलहरिणलाञ्छनायमानश्रीबलवर्मनरेन्द्रस्य सूनुः खविक्रमावजितसकलरिपुनृपशिरःशेखरार्चितचरणयुगलो यशोवर्मनामधेयो राजा व्यराजत । तस्य पुत्रः 'सुपुत्रः कुलदीपक' इति पुराणवचनमवितथमिह कुर्वन्नतितरां धीराजमानो १ 'वहत्सु' पाठ मालूम पड़ता है।
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy