SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ नरकाणि (१४८५), पुष्पप्रकीर्णकानि च पञ्चदशाधिकपञ्चशताष्टनवतिसहस्रोतरचतुर्दशलक्षाणि (१४६८५१५), सम्मिलितानि च पञ्चदशलक्षाणि (१५०००००) भवन्ति। चतुर्थ्यां पङ्कप्रभाया श्रेणीन्द्रकनरकाणि सप्ताधिकसप्तशतानि (७०७), पुष्पप्रकीर्णकानि च त्रिनवत्युत्तरद्विशतनवनवतिसहस्राविकनवलक्षाणि (E६६२६३), सम्मिलितानि च दशलक्षाणि (१००००००) भवन्ति । पञ्चम्या धूमप्रभायाञ्च पञ्चषष्ट्यधिकद्विशतश्रेणीन्द्रकनरकाणि (२६५), पुष्पप्रकीर्णकानि च पञ्चत्रिशदुत्तरसप्तशतनवनवतिसहस्राधिकद्विलक्षाणि" (२६६७३५) भवन्ति । षष्ट्या तम प्रभाया तु त्रिषष्टिमात्राणि श्रेणीन्द्रकनरकाणि (६३), पुष्पप्रकीर्णकानि च द्वात्रिशदुत्तरनवशतनवनवतिसहस्राणि (६६६३२), सम्मिलितानि च पञ्चनवत्युत्तरनवशताधिकनवनवतिसहस्राणि भवन्ति (६६६६५)। तथा च सप्तम्या महातम प्रभाया अप्रतिष्ठितनामकमेक श्रेणीन्द्रकनरक, चत्वारि च श्रेणीनरकाणि, मात्राणि पञ्चसख्याकानि भवन्ति । इत्थ सर्वाषामपि पृथ्वीना श्रेणीन्द्रकनरकाणि त्रिपञ्चाशदुत्तरषण्णवतिशतानि (६६५३), पुष्पप्रकीर्णकानि च सप्तचत्वारिशदधिकत्रिशतनवतिसहस्राधिकयशीतिलक्षाणि (८३६०३४७) नरकाणि, सम्मिलितानि च चतुरशीतिलक्षाणि (८४०००००) नरकाणि भवन्ति । इमानि सर्वाण्यप्युष्ट्रकाद्यशभसंस्थानानि, शोचनरोदनाक्रन्दनाद्यशुभनामानि च सन्ति । नारकाणामशुभतरत्वम् एतेषा सप्तविधाना नारकाणा (सप्तपृथिवीषु स्थितत्वात्) लेश्याः, परिणामा, देहादयश्चापि क्रमशोशुभादशुभतरनित्या भवन्ति । लेश्याशुभतरत्वम् उपर्युक्तेषु नरकेषु स्थिताना जीवाना लेश्या नित्याशुभा., अधोऽधश्च क्रमशोsशुभतरा. भवन्ति । तत्र प्रथमायां भूमौ कापोती लेश्या, द्वितीया तत प्रकृष्टतरा कापोती लेश्या, तृतीयायाञ्चोपरिष्टात् कापोतीले श्या, अधश्च नीलालेपया भवति, चतुर्थ्या पृथिव्या ततोऽशुभतरनीला लेश्या, पञ्चम्याञ्चोपरि नीला, अधश्च कृष्णा लेश्या भवति, षष्ठ्या ततः प्रकृष्टा कृष्णा, सप्तम्याञ्च प्रकृष्टतमा परमकृष्णा लेश्या" भवति । जनदर्शन आत्म-द्रव्यविवेचनम्
SR No.010091
Book TitleJain Darshan Atma dravya vivechanam
Original Sutra AuthorN/A
AuthorM P Patairiya
PublisherPrachya Vidya Shodh Academy Delhi
Publication Year1973
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy