SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ (३) परिहारविशुद्धिः (Pure & Absolute Non-Injury)। (४) सूक्ष्मसाम्परायम् (All but entire Freedom from Pass____ion, or Slightest Delusion)। (५) अथाख्यातञ्चेति (Ideal & Passion-less)। अत्र समस्तपापक्रियाणां त्यागः समत्वस्याराधनञ्च 'सामयिकम्', व्रतेषु दूषणे सजाते सति दोषपरिहारं कृत्वा पुनः व्रतेषु स्थितिः 'छेदोपस्थानम्', सर्वत्र गमनादिप्रवृत्ती सत्यामपि शरीरेण जीवहिंसाभावः 'परिहारविशुदिः', समस्तानां क्रोधादिकषायाणां विनाशे सत्यवशिष्टस्य लोभस्य विनाशार्थ प्रयत्न एव 'सूक्ष्मसाम्परायम्', अथ च समस्तानामपि कषायाणां क्षये सति जीवन्मुक्तस्य पूर्णात्मस्वरूपे विचरणं 'यथाख्यातमि'त्युच्यते । सामयिकम् (Equanimity) आगच्छन्तीत्यायाः, सत्त्वव्यपरोपणहेतवोऽनर्थाः सङ्गताः आयाः, सम्यग्वा आयाः समायाः, तेषु, ते वा प्रयोजनमस्येति सामयिकमवस्थानम् । अर्थात् सर्वेषामपि सावद्ययोगानामभेदेन सार्वकालिको नियतकालिको वा त्यागः सामयिकम् । अत्रास्य मानसिकप्रवृत्यात्मकत्वान्न गुप्तावन्तर्भावो भवति, यतो हि, गुप्तौ तु मनोव्यापारस्यापि निग्रहः सजायते । किञ्चास्य मानसिकप्रवृत्त्यात्मकत्वात् समितावपि नान्तर्भावः शक्यः, यतो हि, सामयिकचारित्रोपेतस्यैव समिती प्रवृत्तिर्जायतेऽतः कार्यरूपस्य समितेरेतत्कारणात्मकत्वमुपपद्यते। छेदोपस्थापनम् (Recovery of Equanimity after Down-fall) त्रस-स्थावरादिजीवानामुत्पत्ति-विनाशहेतूनां छद्मस्थाप्रत्यक्षत्वात्, प्रमादवशाच्च स्वीकृतासु निरवद्यक्रियासु दूषणे सति तस्य प्रतीकाररूपं 'छेदोपस्थानम्' । अर्थात्-सावद्यकर्म खलु हिसानतादिभेदात्पञ्चविधम्, इत्यादिविकल्पनपूर्वकं तेभ्यो विरम्य पञ्चयमरूपे धर्मे संयोजनं 'छेदोपस्थापनमि'ति। afegtafayfa: (Pure & Absolute Non-Injury) परिहरणं परिहारः प्राणिवधान्निवृत्तिः, तयुक्तत्वेन विशिष्टा शुद्धिर्यस्मिन् सा परिहारविशुद्धिः । चारित्रमिदं त्रिंशद्वर्षायुषः, वर्षत्रयात् नववर्ष यावत् तीर्थकरपादमूलसेविनः, प्रत्याख्याननामकपूर्वपारङ्गतस्य, जन्तूनामुत्पत्तिसमाचारित्र २२१
SR No.010091
Book TitleJain Darshan Atma dravya vivechanam
Original Sutra AuthorN/A
AuthorM P Patairiya
PublisherPrachya Vidya Shodh Academy Delhi
Publication Year1973
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy