SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ मिथ्यात्वञ्चात्र पूज्यपादः प्रामुख्येन द्विविधं “ स्वीकृतम् - नैसर्गिकम्, परोपदेशपूर्वकचेति । तत्र परोपदेशं विनैव मिथ्यादर्शनकर्मोदयाज्जीवादिपदार्थानामश्रद्धानं नैसर्गिकम् । अन्यनिमित्तादुत्पद्यमानं मिथ्यात्वं परोपदेशपूर्वकमित्युच्यते । उमास्वातिभिश्चैष एव भेदः क्रमशोऽनभिगृहीतमभिगृहीतमिति प्रतिपादितः, एतस्योल्लेखो स्थानांङ्गेऽपि प्राप्यते । मातान्तरेण तु मिथ्यादर्शनं पञ्चविधमपि स्वीकृतम्, तथा हि १. श्रभिग्राहिकम् - तत्त्वमनपरीक्ष्यैव कञ्चन सिद्धान्तविशेषं स्वीकृत्यान्यसिद्धान्तखण्डनमाभिग्राहिकम् । २. प्रनाभिग्राहिकम् - गुणदोषान्नपरीक्ष्यैव सर्वसिद्धान्तानां सामान्येन ग्रहणमनाभिग्राहिकम् । ३. संशयितम् - देव-गुरु- धर्मस्वरूपेषु संदेहबुद्धिः संशयितम् । ४. ग्राभिनिवेशिकम् – स्वीयं सिद्धान्तमसत्यमिति ज्ञात्वापि तद्ग्रहणमाभिः निवेशिकम् । ५. प्रनाभोगिकम् - मोहस्य प्राबल्ये यन्मौढ्यं तदनाभोगिकम् । पूज्यपादाचार्येरन्ये पञ्चभेदाः " परिगणितास्तथाहि १. एकान्तम् -' इदमेव' ' इत्थमेवे 'ति धर्मधर्मिणोरेकान्तरूपोऽभिनिवेश: एकान्तम् (One Sided Belief) २. विपर्ययः सग्रन्थे निर्ग्रन्थभावः, केवलिनः कवलाहारः, स्त्रीणा सिद्धत्वस्वीकारश्च विपर्यय: ( Perverse Belief) ३. संशयः- सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गभूतानि सन्ति न वेत्यात्मकः सशय. (Doubtfull Belief) ४. वैनयिकम् - सर्व देवशास्त्राणां समदर्शनं वैनयिकम् (Veneration of falls Creeds) ५. प्रज्ञानिकम् – हिताहितपरीक्षाविरहत्वमज्ञानिकमिति (Indiscriminate Belief) २. अविरति (Vowlessness) हिसा - अनृत - अस्तेय - अब्रह्म-परिग्रहेभ्यः पञ्चपापेभ्यो विरमणं विरतिः, एतत्प्रतिपक्षभूता विरति । अर्थात् पापेभ्यः, उपभोग्यपदार्थेभ्यः, सावद्यकमेभ्यश्चाविरमणमविरतिरिति । पूज्यपादाचार्ये. षड्जीवनिकायापेक्षया, षडिन्द्रियापेक्षया च द्वादशविधाऽविरतिरभिहिता" । बन्धस्ततवो मेवाश्च १७५
SR No.010091
Book TitleJain Darshan Atma dravya vivechanam
Original Sutra AuthorN/A
AuthorM P Patairiya
PublisherPrachya Vidya Shodh Academy Delhi
Publication Year1973
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy