SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ शेषाणां जरायुज- अण्डज - पोत- देव-नारकातिरिक्तानां सर्वेषां सम्मूर्च्छनं जन्म भवति । अर्थात् शेषाणामेव सम्मूच्छेनं जन्म भवति, न तु जरायुजाण्डजपोतदेवनारकाणामिति २४ । जन्माश्रयाः (Birth Place Or Nuclei ) इत्थमष्टविधकर्मरूपेणास्मिन् संसारे बद्धानां जीवानां जन्मोपरिलिखितेन त्रैविध्येन भवति । तच्च यत्र कुत्रचिदपि जीवेन धार्यते, सर्वत्रापि तदाधारभूता योनयः सन्ति । योनिस्तु पूर्वशरीरस्य विनाशे सत्युत्तरशरीरयोग्यं पुद्गलद्रव्यं यत्र गत्वा संग्राह्य कार्मणशरीरेण संसारिजीवो युज्यते, तत्स्थानम् । ताश्चेमा नवविधाः १५ भवन्ति, तथाहि (१) सचित्तयोनयः, (Living Matter) (२) अचितयोनयः, (Non-Living - Matter) (३) सचित्ताचित्तयोनय:, (Combination of Birth) (४) शीतयोनयः, (Cold) (५) उष्णयोनयः, ( Hot) (६) शीतोष्णयोनयः, (Combination of Both) (७) संवृतयोनयः, ( Covered) (८) विवृतयोनय., ( Exposed) (E) संवृतविवृतयोनयश्चेति । (Combination of Both) अत्राचित्तयोनिका देवनारकाः भवन्ति, यतो हि तेषामुपपादप्रदेशपुद्गलप्रचयोऽचित्तो भवति । सचित्ताचित्तयोनयश्च जीवा गर्भजास्तेषां तदात्मना चित्तवता मातुरुदरे शुक्रशोणितमचित्तं मिश्रम् । सम्मूर्च्छनजेषु केचन जीवाः सचित्तयोनयोऽन्येऽचित्तयोनयोऽपरे सचित्ताचित्तयोनयस्त्रिविकल्पाः भवन्ति । देवनारकाणां केषाञ्चनोपपादस्थानानां शीतात्मकत्वादुष्णात्मकत्वाच्च शीतयोनित्वमुष्णयोनित्वञ्चाप्यस्ति । अग्निकायिकै केन्द्रियजीवास्तु केवलमुष्णयोनय एव भवन्ति । अन्येषु केचन शीतयोनयः केचनोष्णयोनयः, केचन शीतोष्णयोनयो भवन्ति, संवृतयोनयस्तु देवा, नारका, एकेन्द्रियाश्च जीवा । विकलेन्द्रियस्तु विवृतयोनयः, गर्भजाश्च संवृतविवृतयोनयी १२६ ऽवगन्तव्या. 1 आत्मनो भवान्तरसंक्रमगम् १५३
SR No.010091
Book TitleJain Darshan Atma dravya vivechanam
Original Sutra AuthorN/A
AuthorM P Patairiya
PublisherPrachya Vidya Shodh Academy Delhi
Publication Year1973
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy