SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कण्डिका] प्रथमकाण्डम्। पाठान्ते । केचन जामातैव दृढपुरुप इत्याहुः, तत्पक्षे जामातैव वधूमुरिक्षप्य मन्त्रमुक्त्वा चर्मण्युपवेशयति । तत आगत्य यथास्थानमुपविश्य ब्रह्मणाऽन्वारब्धः स्विष्टकृद्धोमं विधाय संस्रवं प्राश्य ब्रह्मणे पूर्णपात्रवरयोरन्यतरं दक्षिणात्वेन दत्त्वा । 'आचार्याय वरं ददाति' वरः स्वकीयाचार्याय वरं ददाति । वरशब्दार्थमाह-'गौाम..."वैश्यस्य ' ब्राह्मणः परिणेता गां वरं ददाति । क्षत्रियश्चेद्वरस्तदा ग्रामं ददाति । वैश्यश्चेदश्वम् । अधिरथर्ड शतं दुहितृमते ' ' यस्यास्तु न भवेदभ्राता न विज्ञायेत वा पिता । नोपयच्छेत तां कन्यां पुत्रिकाधर्मशङ्कया' इति मनुवचनाभ्रातृमतीपरिणयनं प्रतिषिद्धं तदतिक्रम्य यदि कश्चित्तामुद्हेत् तदा तस्याः पुत्रिकात्वदोपपरिहाराय च एकेन रथेन अधिकं गवां शतं तपित्रे दत्त्वा उद्वहेत् । 'ग्रामवचनं च कुर्युः । अत्र विवाहे ग्रामशब्दवाच्यानां स्वकुलवृद्धानां स्त्रीणां श्मशाने च वाक्यं कुर्युः अड्रार्पणहरिद्राक्षतचन्दनादिधर्मप्रतिपादकम् । कस्मात् 'विवाहश्मशानयोमिं प्राविशतादितिवचनात् , तस्मात्तयोमः प्रमाणमिति श्रुतेः' विवाहे च श्मशाने च ग्राम स्वकुलवृद्धाः स्त्रियः 'प्राविशतात् । शास्त्रातिरिक्तं कर्तव्यमाचार पृच्छेदिति वचनात् इति स्मृतेः । न केवलं स्मृतेः श्रुतेश्चापि । का सा श्रुतिः 'तस्मात्तयोगामः प्रमाणमिति' यतः स्वकुलवृद्धाः स्त्रियः पूर्वपुरुषानुष्ठीयमानं सदाचारं स्मरन्ति तस्मात्तयोविवाहश्मशानयोामः प्रमाणं सदाचारबोधकमित्यर्थः । 'अस्त 'यति' दिवा विवाहश्चेत्तदा अस्तमिते सूर्य अमुकि ध्रुवमीक्षस्वेति प्रेषेण वधूं ध्रुवं तारकाविशेपं दर्शयति । रात्रौ विवाहश्चेत्तदा वरदानानन्तरमेव । तद्यथा ध्रुवमसीत्यादि सजीव शरदः शतमित्यन्तं वरेण पाठितेन मन्त्रेण वधूवूवमीक्षते । 'सा यदि "यात् । सा वधूर्यदि ध्रुवं नेक्षेत तथापि पश्यामीत्येवं वदेत न विपरीतम् । 'त्रिरात्र 'ताम् । विवाहदिनमारभ्य त्रिरात्रं त्रीणि अहोरात्राणि अक्षारालवणाशिनौ अक्षारं च अलवणं च अक्षारालवणं तदनीत इत्येवंशीलौ अक्षारालवणाशिनौ स्यातां भवेताम् । अधः आस्तरणास्तृतायां भूमौ न खट्टायां शयीयाताम् स्वपेताम् । 'संवत्सरं""''मन्ततः ' संवत्सरं वर्षे यावन्मिथुनम् अभिगमनं नोपयातां नोपगच्छेताम् । अथवा द्वादशरात्रमथवा षडात्रं यद्वा त्रिरात्रमन्तत: संवत्सरादिपक्षाणामन्ते त्रिरात्रमित्यर्थः । संवत्सरादिविकल्पास्तु शक्त्यपेक्षया व्यवस्थिता विज्ञेयाः । संवत्सरादिपक्षाशक्तौ त्रिरात्रपक्षाश्रयणेऽपि चतुर्थीकानन्तरं पञ्चम्यादिरात्रावभिगमनं, चतुर्थीकर्मणः प्राक् तस्या भार्यात्वमेव न संवृत्तं विवाहैकदेशत्वाच्चतुर्थीकर्मणः। ___अथ पद्धतिः अथ प्रकृतं विवाहकर्माह । तत्र पुण्येऽहनि मातृपूजापूर्वकं वरस्य पिता स्वपितृभ्यः पुत्रविवाहनिमित्तं नान्दीमुखं श्राद्धं विधाय वैवाह्यं पुत्रं मङ्गलतूर्यवेदघोपेण कन्यापितृगृहमानयति कन्यापिता च मातृपूजापूर्वकं कन्याविवाहनिमित्तकं स्वपितृभ्यो नान्दीमुखं श्राद्धं विधाय मण्डपद्वारमागतं वरमभ्युत्थानादिभिः प्रतीक्ष्य मधुपर्केणार्चयेत् । तद्यथा अर्चयिता आसनमानाय्य तस्यासनस्य पश्चात्तिष्ठन्तमध्ये प्रति साधु भवानास्तामर्चयिष्यामो भवन्तमिति ब्रवीति । तत आचार्यस्तत्संबन्धिनः पुरुषाः विष्टरं पाद्यं पादार्थमुदकमर्चमाचमनीयं मधुपर्क तत्समीपमानयन्ति । अथार्चयिता एकं विष्टरमादाय तिष्ठति अन्यः कश्चिदाह्मणो विष्टरो विष्टरो विष्टर इति श्रावयति । प्रतिगृह्यतामित्यय॑स्य हस्तयोर्ददाति । अय॑श्च, वर्मोऽस्मि समानानामुद्यतामिव सूर्यः । इमं तमभितिष्ठामि यो माकञ्चाभिदासतीत्यनेन मन्त्रेण विष्टरमासने निधाय तदुपर्युपविशति । ततोऽन्येन पाद्यं पाद्यं पाद्यमिति श्राविते पादार्थमुदकमर्चयिता अाय प्रतिगृह्यतामित्युक्त्वा समर्पयति । अथाय॑स्तत्पात्रं भूमौ निधायाञ्जलिना जलमादाय विराजोदोहोऽसि विराजोदोहमशीय मयि पाद्यायै विराजोदोह इति मन्त्रेण ब्राह्मणो दक्षिणं पादं प्रक्षाल्य तथैव वामं प्रक्षालयति । क्षत्रियादयस्त्वन्ये सव्यं पादं प्रक्षाल्यानेनैव विधिना दक्षिणं प्रक्षालयन्ति । स्तः पुनर्विष्टरो क्टिरो
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy