________________
७६
पारस्करगृह्यसूत्रम् ।
[ पश्चमी
चित्तं चेत्येवमादीनां पदानां चतुर्थ्यन्तानां केचिदिच्छन्ति तदसांप्रतम् । कुतः नह्येतानि देवतादानि किंतु मन्त्रा एवैते मन्त्राश्च यथाऽन्नाता एव प्रयुज्यन्ते । 'अग्निर्भूता वहत्यां स्वाहेति । अभ्यातानसंज्ञका होते अष्टादश मन्त्राः | 'सर्वत्रानुषजति ' अग्निर्भूतानामित्यादिषु पितरः पितामहा इत्यन्तेष्वष्टादशसु मन्त्रेषु प्रतिमन्त्रं यथालिङ्गं यथावचनं समावत्वित्यादि देवहूत्यां स्वाहेत्यन्तं वाक्यैकदेशमनुषजति संयुनक्ति । ' अग्निरेत्वित्यादि परंमृत्यविति चैके प्राशनान्ते ' अग्निरैत्वित्यादिकाः परंमृत्यवित्यन्ताः पञ्च मन्त्राः । परं मृत्यविति च जुहुयात् । एके आचार्याः परं मृत्यवित्येतामाहुतिं प्राशनान्ते संस्रवप्राशनान्ते जुहुयादितीच्छन्ति । उदकस्पर्शः । इति हरिहरभाष्ये प्रथमकाण्डे पञ्चमी कण्डिका ॥ ५ ॥ ॥ * ॥
( गदाधर: ) - ' प्रदक्षिणणीयैके ' एके आचार्या अग्नेः प्रदक्षिणं कारयित्वा कन्यायाः वासः परिधानादि कर्तव्यमिति वदन्ति । अपरे तु समीक्षणान्ते अग्नेः प्रदक्षिणकरणं वदन्ति अतश्च विकल्पः । ' पश्चादविशति' ततो वरोऽग्नेः पश्चात्स्थापितां तेजनीं कटं वा दक्षिणपादेन प्रवृत्य आक्रम्य उल्लङ्घयाग्नेः पश्चादुपविशति । तेजनी तृणपूलिकोच्यते, कटः प्रसिद्धः । अत्र पश्चादुपवेशनं वचनात्, वचनाभावे तु सर्वत्रोत्तरत उपचारो यज्ञ इत्यनेन उपवेशनम् । स्मृत्यन्तराद्वरस्य दक्षिणतः कन्या उपविशति । तेजनीं कटमिति द्वितीयानिर्देशादेतयोः संस्कारः । ननुपयुक्तमुपयोक्ष्यमाणं वा द्रव्यं संस्कार्ये नचानयोरन्यतर उपयुक्तमुपयोक्ष्यमाणं वा भवति, ततश्व कथं संस्कार: १ सत्यम् । यद्यप्यत्र शब्देनोपयोगो नोक्तस्तथाप्यासने द्रव्याकाङ्क्षत्वादेतस्य च प्रयोजनाकाङ्क्षत्वादेवं कल्यते उपवेशनार्थोऽयं संस्कार इति तेन तेजन्युपरि कटस्योपरि वोपवेशनम्, एवं च दृष्टार्थतालाभ: । आक्रमणं च तया सह कर्तव्यमिति भर्तृयज्ञहरिहरौ । ' अन्वार "टकच ' आघारौ आज्यभागौ च विधीयेते । आघारः पूर्व उत्तरश्च तत्र तूष्णीं पूर्वः । हरिहरेण प्रजापतये स्वाहेति पूर्वाधारो दर्शितः तदतीवाशुद्धम् । नात्र मन्त्रोऽस्ति दर्शपूर्णमासयो: परिभाषात. प्राप्तः स्वाहाकारोऽपि प्रतिपिव्यते न स्वाहेति च नानिरुक्तं हि मनो निरुक्त ह्येतद्यस्तूष्णीमिति । ननु आधारादिपृष्टभावेन वेद्यादिकं कुतो नायाति, उच्यते-- गृह्यस्थालीपाकानां कर्मेत्युपक्रम्य एप एव विधिर्यत्र कचिद्धोम इत्यनेनैवं ज्ञायते--- यावन्तोऽत्र पदार्था उक्तास्तावन्त एव भवन्ति नान्ये । उत्तराधारे प्रतिनिगद्य होमत्वं नात्र मन्त्रोऽस्ति । एवमाज्यभागयोरपि । महाव्याहृतयो महाव्याहतिका मन्त्रास्त्रयः, भूर्भुवः स्वस्तिस्रो महाव्याहृतय इत्युक्तत्वात् । सर्वप्रायश्चित्तं च त्वन्नो अग्न इत्यादिमन्त्रैः पश्चाहुतयो हूयन्ते तासां संज्ञा । प्राजापत्यं प्रजापतिदेवताको होमः । स्विष्टकृत्स्विष्टकृद्धोमः । यजमानो ब्रह्मणा अन्वारव्ध आघारादिस्विष्टकृदन्तं करोति अन्वारम्भश्च कुोन निगमपरिशिष्टात् । ' एतन्नित्यर्ट सर्वत्र ' एतदाधारादि स्त्रिष्टकृदन्तं कर्म यत्र यत्र होम: तत्र सर्वत्र भवति । यत्र पुनहोंम एव नास्ति यथा स्त्रस्तरारोहणे लाङ्गलयोजने च तत्रैतन्न भवति । 'प्राड्महा..... ज्याद्धविः ' चेद्यदि आज्यद्रव्यादन्यद् द्रव्यं चर्वादिकमपि भवति तदा महाव्याहतिहोमात्याक् पूर्व स्विष्टकृद्धोमो भवति चर्वादिद्रव्यपादेव । केवलान्यहोमे तु सर्वहोमान्ते आज्येनैव स्विष्टकृन् । 'सर्वप्राविवाहं सर्वप्रायश्चित्तं च त्वन्नो अग्न इत्यादिमन्त्रैः पश्च होमाः प्राजापत्यं प्रजापतिदेवताको होमः एतयोरन्तरं मध्यं सर्वप्रायश्चित्तप्राजापत्यान्तरमेतद्विवाहे विवाहकर्मणि आवापस्थानं वक्ष्यमाणानां राष्ट्रभृदादीनामनुष्टान काल इत्यर्थः । ' राष्ट्रभृत इच्छन् ' अस्मिन् विवाहकर्मणि इच्छन्निच्च्या राष्ट्रभृत्संज्ञका होमाः स्युः । ऋतापाद्धृतबामान्निर्गन्धर्व इत्यादिभिर्मन्त्रैराशिका दाहोमा राष्ट्रभृतः । जयाभ्या ''वचनात् ' जयाश्च अभ्यातानाच जयाभ्यातानान् जान्न इच्छञ्जुहोति अतच विकल्पः । चान्द्रो राष्ट्र
८
जयाभ्याताना: