________________
कप्डिका ]
प्रथमकाण्डम्। अन्येऽपि वान्धवादयो यथासंभवं यौतकं प्रयच्छन्ति । केचन यौतकं होमान्ते प्रयच्छन्ति । अत्र देशाचारतो व्यवस्था । पित्राप्र..... 'यदैपीति' पित्रा जनकेन प्रत्तां संकल्प्य दत्तामादाय प्रतिग्रहविधिना प्रतिगृह्य गृहीत्वा हस्ते धृत्वा निष्कामति गृहमध्यात् मण्डपाद्वा । अग्निसमीपं गन्तुम् । यदैपि मनसेत्यादिना मन्त्रेण करोत्वमुकदेवि इत्यन्तेन । अत्र पित्रेत्युपलक्षणं पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः । इति याज्ञवल्क्येन अन्येपामपि कन्यादाने अधिकारस्मरणात् । अथैनौ समीक्षयति' अथ निष्क्रमणानन्तरमेनौ वधूवरौ परस्परं समीक्षेथामिति प्रैषेण कन्यापिता समीक्षयति समीक्षणं कारयति । तत्र समीक्षमाणो वरः । 'अघोर...."निविष्ट्या इति । अघोरचक्षुरित्यादीन् निविष्ट्या इत्यन्तान्मन्त्रान्पठति वरः । इति हरिहरभाष्ये चतुर्थी कण्डिका ॥ ४ ॥ * ॥
(गदाधरः)- चत्वारः पाकयज्ञाः ' पाकयज्ञा इति कर्मणां नामधेयानि । चतुष्प्रकारा भवन्ति । के ते 'हुतो'... "शित इति ' हुतो होममानं यथा सायंप्रातहोंमः । अहुतो यत्र न हूयते यथा स्रस्तरारोहणम् । प्रहुतो यत्र हूयते वलिहरणं च यथा पक्षादिः । प्राशितो यत्र प्राश्यत एव न होमो न वलिहरणं यथा सर्वासां पयसि पायस श्रपयित्वा ब्राह्मणान्मोजयेदिति । ननूपदिश्यमाना एवैते चत्वारो भवन्ति । प्रकारकथनं प्रवृत्तिविशेषकरत्वाभावादनकमिति चेत्, नानर्थकं प्रकारान्तरसूचनार्थत्वात् । चत्वारः प्रकारा उपदिष्टाः । अस्ति हि पञ्चमः प्रकारः स नोपदिष्टः तत्सूचनार्थमेवैतरसूत्रम् । कन्चासौ ? ब्रह्मयज्ञ इति, तस्य विधेाह्मणोपदिष्टत्वात् । एतावता तदवश्यमहरहरध्येतव्यमिति भर्तृयज्ञाः । 'पञ्चसुन्नयन इति' विवाहादिपु पञ्चसु कर्मसु गृहाद्वहिः शालायां कर्म भवति । अन्यत्रान्तःशालायां वहि:शालायां वा भवति । विवाहे तु मण्डपो वसिप्टेनोक्तः । षोडशारनिकं कुर्यात् चतुर्दारोपशोभितम् । मण्डपं तोरणैर्युक्तं तत्र वेदिं प्रकल्पयेत् । अष्टहस्तं तु रचयेन्मण्डपं वा द्विषट्करम् । वेदीकरणं नारदोक्तम् । हस्तोच्छ्रितां चतुर्हस्तैश्चतुर्हस्तां समन्ततः । स्तम्भश्चतुर्भिः सुलक्षणां वामभागे तु समनः । समां तथा चतुर्दिक्षु सोपानरतिशोभिताम् । प्रागुदपवणां रम्भास्तम्भहंसशुकादिभिः । एवं विधामारुरुक्षेन्मिथुनं साग्निवेदिकामिति । सप्तर्षिमते च । मङ्गलेषु च सर्वेषु मण्डपो गृहवामतः । कार्यः पोडशहस्तो वा ह्यूनहस्तो दशावधिः । स्तम्भश्चतुर्भिरेवान वेदी मध्ये प्रतिष्ठितेति । कारिकायामपि विवाहे मण्डपवेदीकरणमुक्तम् । उपलि...."घाय' यत्राग्नेः स्थापनं तत्रोपलिप्ते उद्धते अबोक्षिते उदकेनाभ्युक्षिते देशेऽग्निस्थापनम् । अत्रानेन पञ्चाग्निसंस्कारा लक्ष्यन्ते । ननु परिसमूहनादेरुक्तत्वात्किमर्थमुपलेपनादिकमुच्यते । सत्यम् । उच्यते-यत्र कचिद्धोम इत्यनेनाप्राप्तिः परिसमूहनादेरग्न्यर्थत्वाद्यत्र यत्राग्नेः स्थापनं तत्र तत्रैते भवन्ति । तथा च लिङ्गम्-उद्धते वा अबोक्षितेऽग्निमादधातीति । एष एव विधिर्यत्र कचिद्धोम इत्यनेन च होमार्थमग्निस्थापने स्युः । अन्यत्र गृहान्तरेऽग्निनिधाने अग्निगमने मथित्वाऽग्निस्थापने च न स्युः । किं च एष एवेत्यनेन यत्र स्वस्थानस्थितेऽग्नौ स्थालीपाकादिकं क्रियते तत्रापि पञ्चैते स्युः, तन्मा भूदित्यनेन सूत्रेण ज्ञाप्यते । उपलिप्त उद्धताबोक्षिते देशेऽग्निमुपसमाधाय विवाहो भवतीति भर्तृयज्ञैः सूत्रं योजितम् । परिसमूहुनपरिसंख्या च तेषां मते । 'निर्मन्थ्यमेके विवाहे । विवाह इति कर्मणो नामधेयम् । एके विवाहकर्मणि निर्मन्थ्यमग्निमिच्छन्ति अन्ये लौकिकमिच्छन्ति । निर्मन्थ्योऽचिरनिर्मथितो ग्राह्यः । सर्व एव ह्यग्निर्मन्थनाजायते यथा नवनीतेन भुङ्के इत्युक्ते अचिरदग्धेनेति ज्ञायते । अत्र या काचिदरणिर्माह्या | 'उद्ग'...""पुण्याहे । उद्गयने उत्तरायणे आपूर्यमाणपक्षे शुक्लपक्षे पुण्याहे शोभने विष्यादिरहितकाले दैवानि कर्माणि कुर्यात् । एवं हि श्रूयते । स यत्रोदृड्डावर्तते देवेषु तर्हि भवतीति तस्मात्तत्र देवक्रमोंचितम् । आपूर्यमाणः सोऽपि देवानामेव । तथा