________________
[चतुर्थी
पारस्करगृह्यसूत्रम् । 'ऊर्वोम ओजः अनेन अरू । अरिष्टानि मेनानि तनूस्तन्वा मे सहइत्यनेन शिरःप्रभृतीनि पादान्तानि सर्वाण्यङ्गान्युभाभ्यां हस्ताभ्यामालभते । 'आचान्तोदकाय शासमादाय गौरिति त्रिः प्राह प्रत्याह । आचान्तमुदकं येन स आचान्तोदकः तस्मै अर्ध्याय सन्निहिते कन्यादानकाले शासं खङ्गमादाय गौरिति त्रिवारमाहार्चकः । तमर्चकं प्रत्याहार्यः । किमित्यत आह-माता रु''न्यत्त्विति ब्रूयात्' वधिष्टेत्यन्तं मन्त्रमुच्चार्य आत्मनोऽर्चकस्य च षष्टयन्ते नामनी गृहीत्वोभयोः पाप्मा हत ओमु. सृज तृणान्यत्त्वित्युत्सर्गपक्षे । आलंभपक्षे तु पूर्ववन्नामनी गृहीत्वा उभयोः पाप्मान हनोमीत्युक्त्वा ॐ कुरुतेति ब्रूयादित्यर्थः । उत्सर्गपक्षे गवे तृणदानम्, आलम्भपक्षे तु पालाशी शाखा निखाय द्विगुणरशनयेत्यारभ्य प्रजापतये जुष्टं नियुनज्मीति शाखायां नियोजन मारणान्तम् । तस्मिन्पक्षे मांसेनार्घदानम् , कर्तव्यताविशेष गोयज्ञे वक्ष्यति । अस्यैवोपोद्लकमाह । 'नत्वेवामांसोऽर्थः स्यात् । तुशब्दः पक्षन्यावृत्तौ । अमांसः मांसवर्जितः अर्को नैव भवेत् । पूर्व पोडशीग्रहणवद्विकल्पमभिधायाद्यार्थकत्वेन चानुष्ठानपक्षं संस्तूयेदानी विवाहे ऋतौ च तस्यावश्यकतामाह-अधिय"ब्रूयात् ' ऋतौ विवाहे च कुरुतेत्येव ब्रूयात् । प्रयोगस्तु प्राग्दर्शितः । आलम्भस्तु कलौ निषिद्धत्वान्नादरणीयः । 'यद्यप्य... "इति श्रुतेः । असकृत्पुनःपुनः संवत्सरस्य संवत्सरसंवन्धिना सोमेन यजेत, यद्वा संवत्सरस्य मध्ये असकृत्पुनः पुनः सोमेन यजेत तदा कृतार्ध्या एवैनं यजमानं याजयेयुः नाकृतमधुपर्का इत्यर्थः । श्रुतिप्रमाणं तु सोमादन्यत्र मधुपर्कस्याऽनावश्यकताप्रदर्शनार्थम् । अपरे तु-सोम एव अरविजां मधुपर्कमाहुः । ततः पुण्याहवाचनं यथाशक्त्यलंकृतां सितवस्त्रयुग्मवेष्टितां चन्दनविलेपिताजां पुष्पाद्यलंकृतां ब्राह्मणेषु पुण्याहं पठत्सु कुमारी पुण्याहस्थाने समानीय तस्याः दक्षिणं हस्तं गृहीत्वा पिता ददाति । पित्रमावे पितामहादिः । सर्वेपामभावे कन्या कुर्यात्स्वयंवरम् । तत्र विधिः । चतुरिकोत्तरतः वरं प्राङ्मुखं कुशास्तीर्णे आसने उपविष्टं वरादक्षिणतः कन्यामुपवेश्य ततः प्रागुदमुखः प्रदः कन्यायाः आसने उपविशेत् । दक्षिणतः पत्नी तिष्ठेत् । तत्र पूर्व देशकालौ स्मृत्वा कन्यादानमहं करिष्य इति संकल्प्य कन्यादाननिमित्तं वराय पाद्याचौ दत्त्वा तस्यैव पादौ प्रक्षाल्य स्वपादावपि प्रक्षाल्याचम्य प्राणानायम्य पुनराचम्य स्वस्तिन इन्द्र इत्यादि पठित्वोदकं पाने प्रक्षिप्यापवित्र इत्यनेन पुण्डरीकाक्षं संस्मृत्यात्मानं मार्जयित्वा सप्तव्याधेत्यादि पठित्वा कन्यादानोपहाराणामित्युपहारं प्रोक्ष्य पुनः स्वस्ति व इति पठित्वा चंदनपुष्पागुरुधूपारार्तिकादिभिर्वरं संपूज्य इमानि अर्चितानि ज्योतीषीत्युक्त्वाऽर्चनविधेः पूर्णतास्त्वित्युक्त्वा यवान्प्रकीर्य पुण्याहं दीर्घमायुरस्त्वित्यादिनात्मानं संप्रोक्ष्य सोदकान्दक्षितान्गृहीत्वा देशकालौ संकीर्त्य शास्त्रोक्तफलावात्यर्थममुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रपौत्रायैवं पितामहपित्रो मनी संकीर्त्य पौत्राय पुत्रायेत्युक्त्वामुकगोत्रायामुकशर्मणे वराय तुभ्यमित्युक्त्वाऽमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रपौत्रीमेवं पौत्री तथा पुत्रीमित्युक्त्वामुकगोत्रीममुकनानीमनुपहतसर्वेन्द्रियां वस्त्रयुग्माच्छादितां सोपानकां यथाशक्ति सुवर्णरजताधलंकृताम्, प्रजापतिदैवतां एवं त्रिः प्रयोगः । अमुकगोत्रोऽहं मार्तण्डोपरागादिकालीन कुरुक्षेत्राधिकरणकानवद्यविद्यावते ब्राह्मणाय सुवर्णभारसहस्रदानजन्यफलोपमशास्त्रबोधितफलावाप्तिकामः संप्रद इत्युक्त्वा कन्यादक्षिणहस्तं वरदक्षिणहस्ते दद्यात् । वरश्वोमिति प्रतिगृह्य स्वस्तीत्याशिपं दत्त्वा कोऽदादिति कामस्तुतिं पठेत् । ततः कन्यादानप्रतिष्टार्थमिति संकल्प्य हिरण्यं वराय दद्यात् । ततः पयस्विनी गां कन्यादानसमृद्धये यथोपपन्नोपस्करसहितां दद्यात् । ततो दक्षिणाः पान्त्वित्याद्याशीः प्रार्थना । ततः कृवैतत्कन्यादानकर्मणो यन्न्यूनं यदतिरिक्तं तत्सर्व परिपूर्णमस्त्विति संप्रार्थ्य द्विजान्प्रणमेत् । कौतुकगृहप्रवेशादि कुर्यात् । इति तृतीया कण्डिका ॥ ३ ॥