________________
५१
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
श्राद्धत्रयं स्मृतमित्यादि च । अतश्च नान्दीमुख्यो मातर: प्रीयन्तामित्यादिक्रमेण यथालिङ्गं प्रयोगः । अत्रैतत्संदिह्यते--किमत्र नवदैवत्यं श्राद्धभुत द्वादशदैवत्यमिति । उभयथा च वचनदर्शनात् । तथा हि — मातृभ्यः प्रथमं दद्यात्पितृभ्यस्तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतमित्यादि । चतुर्विंशतिमते तु — मातृपूर्वान् पितृन् पूज्य ततो मातामहीस्तथा । मातामहं ततः केचिदेव स्तु भोजयेत् । पुराणसमुच्चयेऽपि - शस्तं नान्दीमुखश्राद्धं पिण्डैर्द्वादशभिस्तदा । तथाऽपि दूर्वाक्षतयवैर्वेदरेण विमिश्रितैः । पिण्डा नान्दीमुखे देया मातृपूर्वाश्च द्वादशेति । एवं विप्रतिपत्तौ यथाशाखं यथा कुलदेश वा व्यवस्थेत्यविरोधः । तुल्यविकल्पो वा । अथवा - धनधान्यपुत्रपश्वादिवृद्धयर्थं क्रियमाणं वृद्धिश्राद्धम्। अग्न्याधानाद्यभ्युदयनिमित्तमाभ्युदयिकमिति भेदः । तत्र वृद्धिश्राद्धं द्वादशदैवत्यमाभ्युदयिकं नवदैवत्यमिति व्यवस्थेति । अन्वष्टकायां यच्छ्राद्धं यच्छ्राद्धं वृद्धिहेतुकम् । पित्रादीनां पृथग्दान स्त्रीणां पिण्डः पृथक्पृथगित्यत्र वृद्धिहेतुकमित्यभिधानात् । तथा शरीरोपचये श्राद्धमर्योपचय एव च । पुष्ट्यर्थमिति विज्ञेयमौपचारिकमुच्यते । तथा — नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छा श्राद्धानि कुर्वीत नवसस्यागमे तथेति वचनादिति । ' न स्वधां प्रयुञ्जीत ' निषेधान्तरोपलक्षणं चैतत् । तेन शर्मादिकमप्यत्र न प्रयुञ्जीतेत्यर्थः । तथा च पुराणसमुच्चये -- न स्वधा शर्म वर्मेति पितृनाम न चोच्चरेत् । न कर्म पितृतीर्थेन न कुशा द्विगुणीकृताः । न तिलैर्नापसव्येन पित्र्यमत्रविवर्जितम् । अस्मच्छन्दं न कुर्वीत श्राद्धे नान्दीमुखे कचिदिति । अतश्च नान्दीमुखपितरमुकगोत्रेत्यादिप्रयोगः । अन्ये तु पार्वणवन्नामशर्मादिकमपि प्रयुञ्जते तन्निषेधदर्शनात्कथमिति वाच्यम् । पार्वणवदित्यतिदेशाद्वा तद्विधिः । प्रकृते स्वधावाचने स्वधां न प्रयुञ्जीतेति निषेध इति । तदयुक्तम् । सामान्येनाभ्युदयिके तन्निषेधात् । ' युग्मानाशयेदत्र ' अत्राभ्युदयिके युग्मान् द्विचतुरादीन् विप्रानाशयेद्भोजयेदित्यर्थः । अस्य दैविकत्वाद्देवेयुग्मान् यथाशक्तीति परिभाषयैव युग्मत्वप्राप्तौ विशिष्टविष्यर्थे युग्मग्रहणम् । तेन पित्र्येऽपि युग्मानेव प्रातर्निमन्त्र्याशयेदित्यर्थः । तथा च कात्यायन:: - प्रातरामन्त्रितान्विप्रान्प्राङ्मुन्नयतस्तथेति । अन्यच्च — जेष्टोत्तरकारान्युग्मान्करायाग्रपवित्रकान् । कृत्वार्घ संप्रदातव्यं नैकैकस्यात्र दीयत इति । युग्मानिति पुंस्त्वमविवक्षितम् । तेन पुमभावे स्त्रियोऽपीत्यर्थः । तथा च - मातृश्राद्धे तु विप्राणामला पूजयेदपि । पतिपुत्रान्विता भव्या योषितोऽष्टौ कुलोद्भवाः । इति वृद्धवसिष्ठवचनात् । शङ्खोऽपि - पित्रादित्रयपत्नीस्तु भोज्यामातृप्रतिद्विजैः । स्त्रीणामेव तु तद्यस्मान्मातृ श्राद्धमतः स्मृतमि ति । आशयेदित्यपि विशिष्टविध्यर्थम् । तृप्तिप्रश्नेनैव भोजनोपलब्धेः, अतश्च गुडशर्करादिना मधुरानं भोजयेदिति विशिष्टविधिरित्यर्थः । तथा च भविष्यत्पुराणम् - ब्राह्मणेभ्यस्ततो दद्याद्भोजनं मधुरं खग । गुडमिश्रं सितायुक्तं जवं चोदनोत्तरम् । सरलान्नोदकाचैव नवाम्लकटुकास्तथा । कृष्णात्रेयोऽपि - अत्र श्राद्धेषु दातव्यं न मांसं पितृपूजने । इति । अपि च- अपसव्यं जानुपातमम्लं मांसं च वारिजम् । रक्तं विवर्जयेत्समूलांश्च तिलानपीति । तथा द्राक्षामलकमूलानि यवान्वाथ निवेदयेत् । तानेव दक्षिणार्थं तु दद्याद्विप्रेषु सर्वदेति ब्रह्मपुराणम् । अतश्च - द्राक्षामलकमूलयवनिष्क्रयिणीं दक्षिणां युवाभ्यां संप्रदद इत्यादिप्रयोगः नैकैकस्यात्र दीयत इत्युक्तेः ॥ ॥ अथाभ्युदयिकश्राद्धसंदेहो निरस्यते । तत्र कात्यायनः -- स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु । पिण्डानोद्वहनात्तेषां तस्याभावे तु तत्क्रमात् । अस्यार्थः- पिण्डशब्दः श्राद्धं लक्षयति । आउद्वहनादित्याङभिविधौ । ततश्च पुत्रस्य निषेकादिप्रथमविवाहपर्यन्तेषु संस्कारकर्मसु पिता स्वमातृस्वपितृस्वमातामहेभ्यः श्राद्धं दद्यान्न पुत्रमातृमातामहादिभ्यः । तस्य पितुरभावे तेषां पितुमात्रादीनामेव नवानां तत्क्रमाद्येन क्रमेण पित्रा दत्तं तेनैव क्रमेणाधिकारी ज्येष्ठभ्रात्रादिरपि दद्यादिति । नन्वेवं सति संस्कार्यस्य पुत्रादेमृतपित्रोः श्राद्धादौ मुख्याधिकारित्वात्तदतिक्रमो न युक्त इति । न च जीवत्पित्रोर्योऽनुष्ठानक्रमः समृतपित्रोरप्युचित इति वाच्यम् । प्रेतेभ्यो दद्या