SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ कण्डिका ५] परिशिष्टम् । ४९९ यिमिस्तु पूर्व पितृभ्यो देयं पश्चात्प्रेताय दानम् । एतेनैव पिण्डो व्याख्यातः' यथा प्रेतार्धपात्रस्थं जलं ये समाना इति द्वाभ्यां मन्त्राभ्यां पात्रत्रये स्थापितम् एवमेव प्रेतपिण्डमपि त्रेधा कृत्वा पिण्डत्रितये निदध्यादित्यर्थः । तत्प्रकारश्च ब्रह्मपुराणे । दत्वा पिण्डमथाष्टाङ्गं ध्यात्वा तञ्च सुभास्त्ररम् । सुवर्णरौप्यदभैस्तु तस्मिन्पिण्डं ततस्विधा । कृत्वा पितामहादिभ्यः पितृभ्यः प्रेतमर्पयेत् । तथा, सुवतुलांस्ततस्तांस्तु पिण्डान्कृत्वा प्रपूजयेत् । अर्धेः पुष्पैस्तथा धूपै-पैर्माल्यानुलेपनैरिति । एतच प्रेतश्राद्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृषु सत्स्वपि एकेनैव कृतेनालं न सवैः कर्तव्यम् । नवश्राद्धं सपिण्डवं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपीति स्मरणात् । मातुः पिण्डदानादौ गोत्रे विप्रतिपत्तिः । भर्तृगोत्रेण पितृगोत्रेण वा देयम् । उभयथा वचनदर्शनात् । मातुः सपिण्डीकरणे विरुद्धानि वाक्यानि दृश्यन्ते । तत्रापि पितामह्यादिभिः सह सपिण्डीकरणं स्मृतमिति । तथा भाऽपि भार्यायाः स्वमात्रादिभिः सह सपिण्डीकरणकर्तव्यमिति । पैठीनसिराहअपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डताम् । श्वश्वादिभिः सहैवास्याः सपिण्डीकरणं भवेदिति । पत्या सह सपिण्डीकरणं यम आह-पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः । सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैरिति । उशनसा तु मातामहेन सह सपिण्डीकरणमुक्तम् । पितुः पितामहे यत्पूर्णे संवत्सरे सुतैः । मातुर्मातामहे तद्वदेपा कार्या सपिण्डतेति । एवंविधेपु वचनेषु सत्सु अपुत्रायां भार्यायां प्रमीतायां भर्ता स्वमात्रैव सापिण्ड्यं कुर्यात् । अत्राचारादनुष्ठानम् । अत ऊर्च प्रेतायान्नं दद्याद्यस्मिन्नहनि प्रेत: स्यात् । अतः सपिण्डीकरणादूर्द्धम्प्रेतायान्नं दद्याद्यस्मिन्नहनि यस्यान्तिथौ प्रेतः स्यादित्यर्थः । यद्यप्यत्र प्रेतायेत्येकवचननिर्देशस्तथाऽपि स्मृत्यन्तरात्रिभ्यो देयम् । मासश्वान चान्द्रो ग्राह्यः । यथा परमेष्टी आन्दिके पितृकार्ये च चान्द्रो मासः प्रशस्यते । विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृत इति ।। इति नवकण्डिकाभाष्ये पञ्चमी कण्डिका ॥ ५ ॥ अथ प्रयोगः । द्वादशाहे विधिवत्स्नात्वा विष्णुं सम्पूज्य ऊनमासिकमेकोद्दिष्टं कुर्यात् । ततः स्नानम् प्रेतोद्देशेन सान्नानां सजलानां द्वादशघटानां दानम् । एका वर्द्धनी पक्वान्नजलपूरिता विष्णवे देया । एको धर्मराजाय घटो देयः । एकश्चित्रगुप्ताय । ततो मासिकानि चतुर्दश श्राद्धान्येकतन्त्रेण । तत्र क्रमः । द्वितीयमासे त्रिपक्षे तृनीयमासे चतुर्थमासे पञ्चममासे षष्ठे ऊनपष्ठे सप्तमे अष्टमे नवमे दशमे एकादशे द्वादशे ऊनाव्दे चेति प्रेतकोद्दिष्टवकार्याणि । ततः स्नात्वा सपिण्डीकरणं कुर्यात् । तत्र पूर्व वैश्वदेवश्राद्धम् । देवपादप्रक्षालनम् । ततः पार्वणं प्रेतस्य पितृपितामहप्रपितामहानाम् । तदर्थ त्रयाणां पादप्रक्षालनम् । तत्र सर्वम्पार्वणे पार्वणवत् एकोद्दिष्टे एकोद्दिष्टवत्, अत्राद्य मासे पक्षे तिथौ अमुकगोत्रस्यामुकप्रेतस्य वसुरुद्रादित्यलोकप्राप्त्यर्थम्प्रेतत्वनिवृत्त्यर्थं च अमुकगोत्रस्यामुकप्रेतस्य अमुकगोत्राणां पितृपितामहप्रपितामहानाममुकामुकशर्मणां वैश्वदेवपूर्वकं सैकोदिष्टं पार्वणविधिना सपिण्डीकरणश्राद्धं युष्मदनुज्ञयाऽहङ्करिष्ये । आसनम् । आवाहनम् । विश्वेषां देवानां पितॄणां प्रेतस्य चार्घपात्राणि पूरयित्वाऽभ्यर्च्य विश्वेभ्योदेवेभ्योऽर्घ दत्वा ततः प्रेताय जलम्, प्रेतपाने जलचतुर्थभागेनार्घन्दत्वाऽवशिष्टमर्घपात्रस्थितञ्जलं पित्रादिपात्रेषु विभज्य तृतीयांशन्निनयेत् । तत्र प्रेतपात्रं पितृपात्रेषु संयोजयिष्य इति पृष्ट्वा संयोजयेत्यनुज्ञातोऽथै संयोजयेत् । एवं पिण्डयोजनेऽप्यनुज्ञाप्रार्थनम् । तत्रेदं येसमाना इतिमन्त्रद्वयं पठित्वा अमुकगोत्रस्यामुकप्रेतस्याः अमुकगोत्रस्य प्रेतस्य पितुरमुकशर्मणोऽर्येण सह संयुज्यताम् , वसुलोकप्राप्तिरस्त्विति वदेत् । एवं पितामहपात्रे प्रपितामहपात्रे च । ततस्तेभ्योऽर्घन्दद्यात् । पार्वणे नियमेन विकिरः। पिण्डदाने पूर्वम्पार्वणसम्वन्धिनः पिण्डान्निरुप्य पश्चात्तपिण्डं त्रेधा विभज्य तत आयं भागमादाय ये समाना इति मन्त्रद्वयं पठित्वा अमुक्रगोत्रस्यामुकप्रेतस्य पिण्डः अमुकगोत्रस्य प्रेतस्य पितुरमुकर्मणः पिण्डेन सह संयुज्यतामित्युक्त्वा प्रथम
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy