________________
परिशिष्टम् ।
४७७
कपिडका ३ ]
1
भागधेयत्वाद्विकिरेद्दध्योदनमेव केवलमिति । तदयुक्तम् - यदन्नं पिण्डदानेषु तदन्नं विकरे न्यसेदिति । वृद्धयाज्ञवल्क्योक्तेः । अतृप्तेष्वन्नं न च विकिरेदिति तृप्तान् ज्ञात्वेत्युक्तम् । तथा चेश्वरसंवादे - ज्ञात्वा तृप्तांस्ततो विप्रान्प्रकुर्याद्विकरासनमिति । तृप्तिज्ञानं चान्नाद्यग्रहे आहारानुमानेन प्रतिपन्नम् । अत्र यद्यप्यवकीर्येत्युक्तं तथाऽपि प्रदेशपरिमाणं स्मृत्यन्तरादवगन्तव्यम् । तथा च वृद्धयाज्ञवल्क्यः - विकिरं भुवि दातव्यं उच्छिष्टेभ्य: पडङ्गुलम् । पठन्ति च --- उच्छिष्टस्योत्तरे भागे पिण्डं दद्यात्पडङ्गुलम् | इति । यत्तु पुराणसमुचये --- विश्वदेवपितॄणां च अन्तरे च क्षिपेत्कुशान् । तत्रावकिरणं कुर्याद्गाथामे - तामुदीरयेत् । यच्च तत्समंविकरं दद्याद्दैवपित्र्यान्तरे भुवीति तद्दिजास्थानवोधकमित्यविरोधः । मुक्तवतामग्रत इति योगीशोक्तः । ननु चास्य विकिरसंज्ञकत्वाद्विकीर्येति वाच्यं न प्रकीर्येति । उच्यते । विकिरं विना श्राद्धं व्यर्थमिति प्रशब्देन द्योतितमित्यदोपः । तथा च गोभिल: - विकिरेण विना श्राद्धं निष्फलं परिकीर्तितम् । एकोद्दिष्टं विशेषेण प्रेतश्राद्धेषु वर्जयेदिति । यो मोहात्कुरुते श्राद्धं विकिरेण विना क्वचित् । तत्सर्वं व्यर्थतां याति पितृपिण्डोदकादिकमिति । अत्रैतत्संदिह्यते - किमपिण्डकश्राद्धे विकरः स्यादुत नेति, उभयथाऽपि वचनदर्शनात् । तथा हि-पिण्डनिर्वापरहितं यत्र श्राद्धं विधीयते । स्वधावाचनलोपोऽस्ति विकरस्तु न लुप्यते । तथा-न चाग्नौकरणं कुर्यान्नार्घदानं कथंचन । न पिण्डं कल्पनाश्राद्धे विकिरान्नं न चोत्सृजेदिति । अत्रक आहुरुभयशास्त्रत्वाद्विकल्प इति । अन्ये त्वाहुः — यत्र पिण्डदानं न निषिद्धं तत्र चेद्देशकालाद्यसंभवेन पिण्डवर्जे करोति तदा विकिरः स्यान्न तु युगाद्यादिपु पिण्डदाननिषेधेऽपीति । तदेतद्विचारणीयम् - विकर: प्रधानमुताङ्गमिति । तत्र यदि प्रधानं तर्हि पिण्डप्राधान्यं विरुध्येत । अथाङ्गं तर्ह्यङ्गानां प्रधानधर्मानुरोधित्वात् पिण्डाभावे तदभाव इति किमत्राश्चर्यम् । यच विकल्प इत्युक्तम् । तदसत् । विषयकल्पनस्य 'सद्भावात् । तदुक्तं-स्मृतिद्वैधे तु विषयः कल्पनीयः पृथक् पृथगिति । तस्माद्देशकालाद्यसंभवे पिण्डाभावेऽपि विकिरेन्न पिण्डनिपेधेऽपीति चतुरस्रम् । तथा च मोक्षेश्वरनिबन्धे ---मघायुगादिभरणीश्रद्धे पिण्डं विवर्जयेत् । अवनेजनपूजान्तमुल्मुकास्तरणानि च । निःशेषमग्नौकरणं विकिरं च षडङ्गुलानिति । ततश्च युगाद्यादिषु पिण्डनिषेधे आवाहनाद्यनौकरण विकिरवेद्यादिपूजान्तस्वधावाच-' नादीनां निषेध इति सिद्धम् । एवं विकीर्याचामेत् । तथा च मरीचिः - श्रद्धेषु विकिरं दत्त्वा यो नाचामति भ्रमात् । पितरस्तस्य पण्मासान्भवन्त्युच्छिष्टभोजिनः । इति । तथा विकिरे पिण्डदाने च तर्पणे भोजने तथा । कृते आचमनं प्रोक्तं दर्भत्यागो विधीयते । इति अत्रानग्निदग्धा इत्यपिपाठः । येषां दाहो न क्रियते येऽग्निदग्धास्तथा पर इति ब्रह्मपुराणवचनात् । ' सकृत्सकृदपो दत्त्वा पूर्ववद्वायत्रीं जपित्वा मधुमतीमधुमध्विति च' ब्राह्मणेभ्यश्चुलुकार्य सकृत्सकृदपो दत्त्वा पूर्ववत्सप्रणवव्याहृतिं गायत्री सकृत्रिर्वा मधुमती मधुमध्विति जपेदित्यर्थः । तथा च मार्कण्डेयः -- ततस्त्वा - चमनार्थाय दद्याच्चापः सकृत्सकृदिति । वीप्सा पित्र्यदैवद्विजार्थी । चकारोऽपोशानेऽपो दत्त्वा गायध्यादिजपं द्योतयति । तथा च गोभिलसूत्रं - अङ्गुष्टमन्ने निधाय सकृत्सकृदुपो दत्त्वाध्वप्सुदिति । मधुशब्दोऽस्ति यासु ता मधुमत्यो मधुवाता इत्यादितृचम् । मधुमध्विति द्विरुचारणं मन्त्रप्रदर्शनार्थं संहितायां मधु मधुमध्विति प्रवर्ग्यं मन्त्रदर्शनात् । अत्रैके देवपूर्वमपोशानमाहुः । तदयुक्तं पितृपूर्व विहितत्वात् । तथा च विष्णुः -- उदङ्मुखेष्वाचमनमादौ ततः प्राङ्मुखेषु दद्यादिति । विसर्गञ्चुलुकश्वाग्नौकरणं पङ्किवापनम् । करशुद्धिरपोशानं पितृपूर्वाणि पड् भवेदित्युक्तम् । ' तृप्ताः स्थेति पृच्छति' अनन्तरं तृप्ताः स्थेति ब्राह्मणान्पृच्छेदित्यर्थः । अत्रक आहुः पङ्किमूर्धन्यप्रश्ने तृप्ताः स्थेति बहुवचनं पूजार्थमिति । तन्न । तृप्ताः स्म इति प्रतिवचने वहुत्वानुपपत्तेः । न चानौकरणादिविवाचैकस्य प्र दृष्टार्थत्वसंभवः । तस्मात्पङ्किमूर्धन्यं पृच्छति, सर्वान्वेत्यत्र व्यवस्थितत्रिकल्प इत्युक्तम् । ततश्च
1
I