SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ४०४ पारस्करगृह्यसूत्रम् । परिशिष्टानि । [ वाप्यादिप्रतिष्ठान अथातो वापीकूपतडागारामदेवतायतनानां प्रतिष्ठापनं व्याख्यास्यामः । तत्रोदयन आपूर्यमाणपक्षे पुण्याहे तिथिवारनक्षत्रकरणे च गुणान्विते तत्र वारुणं यवमयं चरुणं श्रपयित्वाज्य भागाविष्ट्वाऽऽज्याहुतीर्जुहोति त्वं नो अग्न इमं वरुण तत्वायामि येते शतमयाश्रान उदुत्तममुरुळी हि राजा वरुणस्यो - तम्भनमग्नेरनीकमिति दशर्च हुत्वा स्थालीपाकस्य जुहोत्यन्नये स्वाहा सोमाय स्वाहा वरुणाय स्वाहा यज्ञाय स्वाहोग्राय स्वाहा भीमाय स्वाहा शतकतये स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहेति यथोक्त स्विष्टकृत् प्राशनान्ते जलचराणि क्षिप्त्याऽलंकृत्य गां तारयित्वा पुरुषसूक्तं जपन्नाचार्याय वरं दत्वा कर्णवेष्टको वासाळंसि धेनुर्दक्षिणा ततो ब्राह्मणभोजनम् ॥ ७ ॥ दीक्षितकामदेवकृतं परिशिष्टकण्डिकामाप्यं प्रयोगपद्धतिसहितम् । 1 1 श्री. ॥ ' अथास्यामः ' यादो मङ्गलार्थः आनन्तर्यम्य पाठादेव सिद्धेः । अतः दोहेत्वर्थ. यतोsप्रतिष्टितं वाप्यादिकमथेयस्करं अतः प्रतिष्ठापनं व्याख्यास्याम इति प्रतिज्ञा शिष्यबुद्धिसमाधानार्थ || ' नत्रो कमिति । तत्रेति तस्मिन् प्रतिष्ठापने उदगयनादिकाले ययोक्तं चरं refusatara रेण श्रपयित्वा आघारावाज्यभागी हुत्रोभिर्मन्त्रैर्दान्याहुतीर्जुहोति । उद गयनमुत्तरायणमा पूर्यमाणपत्रः पक्षः पुण्याह इति शापान्तगेकाले । तिथिवारनक्षत्रकरणानां गुणान्वितत्वं ग्रामवान्तरविहितत्वम् । तच्च किंचित्संक्षेपेण प्रदृश्यते । यथा मदनरत्रोदाहतहिपुराणे-वापीकूपतडागानां तस्मिन्काले विधिः स्मृतः । सुदिने शुभनक्षत्रे प्रतिष्ठा शुभदा स्मृता । १ । कर्कटे पुत्रलाभ सौख्यं तु मकरे भवेन. 1 मीने यशोऽर्थलाभश्च कुम्भे वसुदकम् । २ । वृषे च मिथुने वृद्धिर्वृधिकेऽल्पजलं भवेत् । पितृनमिस्तु कन्यायां तुलायां शाश्वती गतिः । सिंहो मेपो धनुर्नागं लक्ष्म्याच द्विज यच्छतीति । तत्रैव भविष्योत्तरेऽपि । तस्मिन् सलिलसंपूर्णे कार्तिके च विपतः | astara fafवः कार्यः स्थिग्नक्षत्रयोगतः | १ | मुनयः केचिदिच्छन्ति व्यतीतेऽप्युत्तरायणे । न कालनियमस्तत्र सलिलं तत्र कारणमिति । एवमादिग्रन्थान्तराद्गन्तच्यं विस्तरभयान्न लिख्यते । चकारात् योगेऽपि गुणान्विते वैधृतिव्यतीपातादिवर्जिते इत्यर्थः ॥ यवमयं चरुं श्रपयित्वे - त्येतावतैव सिद्धे यद्वाणग्रहणं तरुणम्य प्राधान्यज्ञापनार्थम् । ततश्च तदन्तंगये पुन: स्थालीपाकस्योत्पत्तिः । कृतोऽपि देवतान्तरहोम: पुनरावर्तनीयः । तदुक्तं छन्दोगपरिशिष्टे कात्यायनाचार्यैः । प्रधानस्याक्रिया यत्र साङ्गं तत्क्रियते पुनः ॥ तदङ्गस्याक्रियायां तु नावृत्तिनैव तत्क्रियेति । देवतान्तरान्तराये तु प्राक्समाप्तेरनादिष्टप्रायश्चित्तपूर्वकं स्थालीपाकात्तस्य होम: । तदलामे त्वाज्येनैव । उर्ध्व समाप्तेस्तु विष्णुस्मरणमेवेति प्रयोजनम् । श्रीमदनन्तदेवस्वामिचरणैस्तु प्रयोजनान्तरमुक्तम् । वारुणमिति तद्विर्तन वरुणस्यैव च देवतात्वावगमे वक्ष्यमाणाहुतिषु यथालिङ्गमग्न्यादिशन्देर्वरुणं ध्यात्वेदमन्नये इत्येव त्यागो बोध्यः । आग्नेया इति तु स्थितिरिति नैरुक्तविविवशेन प्रयाजेषु समिदादिशब्दैरग्निन्यानपूर्वकमिदं समिद्भ्य इत्यादि त्यागवदिति ॥ दशर्च 'स्वाहा' दशर्चं हुत्वे
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy