________________
कण्डिका] द्वितीयकाण्डम् ।
२९९ मितया उपघातमित्युपपूर्वस्य हन्तेहणार्थता सुवेणोपहत्याज्यमितिवत् । अव"खस्वेति' कङ्कतानि प्रादेशमात्राणि त्रीणि वैकङ्कतानि । तैः क्रमेण प्रलेखनं कण्डूयनेन रेखाकरणम् । अञ्ज'ह्यस्वेति । अञ्जनं त्रैककुदं लौकिकं वा अनुलेपनं चन्दनं सजः सुरभिपुष्पमालाः । आग्नेयेत्यादिभिः त्रिभिर्मन्नैः । मञ्जस्वानुलिम्पस्व स्रजोऽपिनह्यस्वेत्यन्तैः प्रतिमन्त्रं प्रतिबलिमेकैकं ददाति क्रमेण । 'सक्तुद्वाभ्यां' मंत्राभ्यां स्वाहाकाररहिताभ्यां परिषिचन् त्रिः परीयात्सकृन्मन्त्रेण द्विस्तूष्णीम् 'दर्वी"छति' प्रतपनमुल्कायां संनिधानात् दानं चोल्काधाराय । 'द्वार "सृमिः' मार्जयन्त इति बहुत्वसामर्थ्यात्पत्नीयजमानोल्काधाराः । 'अनु'धाय' अनुगुप्तं सुरक्षितं स्थाप्य वर्हिोमादि ब्राह्मणभोजनान्तं समापयेत् । ततोऽ'''यण्याः' ततः श्रवणाकर्मानन्तरम् सक्तुभ्य इति कर्कोपाध्यायाः । अग्निमावसथ्यम् । आग्रहायण्यवधि नित्यत्वसूचनार्थोऽभ्यासः । कर्मोपलक्ष(ण)कमानहायणीपदम् । 'त'च्छेयुः' आवसाध्यबलिदानस्थलयोरन्तरेण अन्ये न गच्छेयुः । दा "धाति' भूमाविति शेषः । आद्यबलिदानविहितदानापवादः । किंतु भूमौ निध्यात् प्रत्यहीयबलिदाने दीं शूर्प च । आचमनं मुखम् । वलिदानं च प्रैपावनेजनाद्युक्तप्रकारेण शूर्पदव्यों निधानान्तम् । अभ्यस्यमानमाग्रहायणीयसमयावधि श्रवणाकर्मावलिदानमभिधायेदानी प्रकृतमाह-धाना'"स्यूताः' असंस्यूताः दन्तैरस्पृष्टाः। ततो "जनम् ' बलिदानसमाप्त्यमे, समाप्तकर्मणि दश पञ्च वा ब्राह्मणानभोजयेदित्यर्थः । श्रावण्यां श्रवणाकर्म पूर्वाह्ने प्राग्वैश्वदेवात् । तदनन्तरं वैश्वदेवः ।। चतुर्दशी कण्डिका ॥ १४॥
प्रौष्ठपद्यामिन्द्रयज्ञः ॥ १ ॥ पायसमैन्द्र श्रपयित्वाऽपूपांश्चापूपैः स्ती.ऽऽज्यभागाविष्वाऽऽज्याहुतीर्जुहोतीन्द्रायेन्द्राण्या अजायैकपदेऽहिर्बुध्न्याय प्रौष्ठपदाभ्यश्चेति ॥ २ ॥ प्राशनान्ते मरुद्यो बलिर्छ हरत्यहुतादो मरुत इति श्रुतेः ॥३॥ आश्वत्थेषु पलाशेषु मरुतोऽश्वत्थे तस्थुरिति वचनात् ॥४॥ शुक्रज्योतिरिति प्रतिमन्त्रम् ॥ ५ ॥ विमुखेन च ॥ ६ ॥ मनसा ॥ ७ ॥ नामान्येषामेतानीति श्रुतेः ॥ ८॥ इन्द्रं दैवीरिति जपति ॥ ९॥ ततो ब्राह्मणभोजनम् ॥ १० ॥ १५ ॥
(कर्कः)-प्रौप्ठ"यज्ञः' इन्द्रयज्ञ इति कर्मणो नामधेयम् । प्रौष्ठपदी च भाद्रपदी पौर्णमासी । 'पाय' पाँच ऐन्द्रग्रहणात् इन्द्राय स्वाहेति होमो लभ्यते । इह च पयस उपसर्जनार्थतया अपां क्षीरस्य च प्रणयनं क्रियते । 'अपू."होति । इन्द्रायेन्द्राण्यै इत्येवमाद्याः । अपूपैः स्तरणमग्नेः । आज्याहुत्यन्ते इन्द्राय स्वाहेति पायसेन होमः । तत: स्विष्टकृदादि । 'प्राश'शेपु' कुत एतत् 'मरु'''चनात् । 'शुक्रज्योतिरिति एभिर्मन्त्रैर्नमस्कारान्तैः प्रतिमन्त्रम् । 'विमु'"नसा' बलिहरणम् । विमुखश्च उग्रश्च भीमश्चेत्यध्येतृणां प्रसिद्धः । 'नामा "श्रुतेः । एषां मरुतामेतानि नामानि श्रयन्ते । ' इन्द्रं पति ' ' ततो "जनम् । ॥ १५॥ ॥* ॥* ॥
(जयरामः) इन्द्रयज्ञ इति कर्मणो नामधेयम् । प्रौष्ठपदी भाद्रपदपौर्णमासी । ऐन्द्रग्रहणादिन्द्राय स्वाहेति एकाहुतिको होमो लभ्यते । इह च पयस उपसर्जनार्थतया अपां क्षीरस्य च प्रणयनं क्रियते । अपूपैः स्तीवाऽऽज्यभागाविष्वा आज्याहुतीर्जुहोति इन्द्राय इन्द्राण्यै इत्येवमाद्याः