SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८४ 'पारस्करगृह्यसूत्रम् । [प्रथमा श्रीः ॥ सांवत्सरिकस्य चूडाकरणम् ॥ ॥ तृतीये वाऽप्रतिहते ॥ २ ॥ षोडशवर्षस्य केशान्तः ॥ ३ ॥ यथामङ्गलं वा सर्वेषाम् ॥ ४ ॥ ब्राह्मणा भोजयित्वा माता कुमारमादायाप्लाव्याहते वाससी परिधाप्याङ्क आधाय पश्चादनेरुपविशति ॥ ५ ॥ अन्वारब्ध आज्याहुती त्वा प्राशनान्ते शीतास्वप्सूष्णा आसिञ्चत्युष्णेन वाय उदकेनेह्यदिते केशान्वति ॥ ६ ॥ केशश्मश्विति च केशान्ते ॥ ७ ॥ अथात्र नवनीतपिण्डं घृतपिण्डं दनो वा प्रास्यति ॥ ८ ॥ तत आदाय दक्षिणं गोदानमुन्दति । सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनूं दीर्घायुत्वाय वर्चस इति ॥९॥ त्र्येण्या शलल्या विनीय त्रीणि कुशतरुणान्यन्तर्दधात्योषध इति ॥१०॥ शिवो नामेति लोहक्षुरमादाय निवर्तयामीति प्रवपति, येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो बपतेदमस्यायुष्यञ्जरदष्टिर्यथासदिति ॥ ११ ॥ सकेशानि प्रच्छिद्यानडुहे गोमयपिण्डे प्रास्यत्युत्तरतो ध्रियमाणे ॥१२॥ एवं द्विरपरं तूष्णीम् ॥ १३ ॥ इतरयोश्वोन्दनादि ॥१४॥ अथ पश्चान्यायुषमिति ॥ १५ ॥ अथोत्तरतो येन भूरिश्वरा दिवं ज्योक्छ पश्चाद्धि सूर्यम् ॥ तेन ते वपामि ब्रह्मणा जीवातवे जीवनाय सुश्लोक्याय स्वस्तय इति ॥ १६ ॥ त्रिः क्षुरेण शिरः प्रदक्षिणं परिहरति समुखं केशान्ते ॥ १७ ॥ यत्क्षुरेण मज्जयता सुपेशसा वप्त्वा वावपति केशाञ्छिन्धि शिरो माऽस्यायुः प्रमोषीः ॥ १८ ॥ मुखमिति च केशान्ते ॥ १९ ॥ ताभिरद्भिः शिरः समुद्य नापिताय क्षुरं प्रयच्छति । अक्षुण्वन्परिवति ॥ २० ॥ यथामङ्गलं केशशेषकरणम् ॥ २१ ॥ अनुगुप्तमेतर्छन्सकेशं गोमयपिण्डं निधाय गोष्ठे पल्वल उदकान्ते वाऽऽचार्याय वरं ददाति ॥ २२ ॥ गां केशान्ते ॥ २३ ॥ संवत्सरं ब्रह्मचर्यमवपनं च केशान्ते द्वादशराठ षडानं त्रिरात्रमन्ततः ॥२४॥ (कर्क०)-'सांवत्स"रणम् । संवत्सरो यस्य जातः स सांवत्सरिकः । तस्य सांवत्सरिकस्य चूडाकरणाख्यं कर्म कर्तव्यम् । 'तृतीये वाऽप्रतिहते ' तृतीये वा संवत्सरेऽप्रपन्ने, वाशब्दो विकल्पार्थः । 'पोडशवर्षस्य केशान्तः' कर्तव्य इति शेषः । तुल्यत्वात्तत्कर्मणः केशान्तोऽनाभिधीयते । यथामङ्गलं वा सर्वेषाम् ' । यद्यस्य मङ्गलमुचितं कुले कस्यचित्तृतीये कस्यचित्संवत्सरे १ वात्रेति जयरामसमतः पाठ.; वप्तेति पाठ ।
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy