SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पारस्करगृह्यसूत्रम् । [एकोनविंशी वरं प्रार्थयेत् । रूपं देहि यशो देहि भद्रं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे । इति वरं प्रार्थ्य प्रणम्य विसर्जयेत् । ततश्चन्दनेनाष्टदलं कृत्वा अक्षतानादाय ॐ भगवन्मार्कण्डेय इहागच्छेह तिष्ठेत्यावाह्य स्थापयित्वा पाद्यादीनि दत्त्वा इदमनुलेपनम् ॐ मार्कण्डेयाय नमः इति चन्दनं दत्त्वा । ॐ आयुःपद महाभाग सोमवंशसमुद्भव । महातपो मुनिश्रेष्ठ मार्कण्डेय नमोऽस्तु ते । इति पुष्पाञ्जलित्रयेण संपूज्य गन्धादीनि दत्त्वा वरं प्रार्थयेत् । ॐ मार्कण्डेयाय मुनये नमस्ते महदायुषे । चिरजीवी यथा त्वं भो भविष्यामि तथा मुने । मार्कण्डेय महाभाग सप्तकरूपान्तजीवन । आयुरारोग्यसिद्धयर्थमस्माकं वरदो भव । नराणामायुरारोग्यैश्वर्यसौख्यैः सुखप्रदः । सौम्यमूर्ते नमस्तुभ्यं भूगुवंशवराय च । महातपो मुनिश्रेष्ठ सप्तकल्पान्तजीवन । मार्कण्डेय नमस्तुभ्यं दीर्घायुष्यं प्रयच्छ मे । मार्कण्डेय महाभाग प्रार्थये त्वां कृताञ्जलिः । चिरजीवी यथा त्वं भो भविज्येऽहं तथा मुने । इति वरं प्रार्थ्य प्रणम्य । अश्वत्थाम्ने नमः वलये नमः व्यासाय न० हनूमते न० विभीपणाय नमः कृपाय नमः परशुरामाय० कार्तिकेयाय० जन्मदेवतायै० स्थानदेवतायैः प्रत्यक्षदेवतायै० वासुदेवाय० क्षेत्रपालाय. पृथिव्यै० अदम्यो नमः तेजसे० वायवे० आकाशाय० । इत्यष्टदिग्भागे संपूज्य । प्रीयन्तां देवताः सर्वाः पूजां गृहन्तु ता मम । प्रयच्छन्त्वायुरारोग्यं यशः सौख्यं च संपदः । मन्त्रहीनं भक्तिहीन क्रियाहीनं महामुने । यदर्चितं मया देव परिपूर्ण तदस्तु मे । इति पठित्वा तिलवपनम् । ब्राह्मणाय तिलदानम् । देयद्रव्याणि संपूज्य कुशत्रयतिलजला; न्यादाय अद्य मदीयजन्मदिने दीर्घायुष्टकाम एतास्तिलान् सोमदैवतान् यथानामगोत्राय ब्राह्मणाय दातुमहमुत्सृजे इति दद्यात् । ततो घृताततिलैयाहृतिभिहामः । ततः पयसा सर्वभूतेभ्यो नम इति वलिं दद्यात् । तण्डुलेभ्यो नमः इति संपूज्य जलेन सिक्त्वा कुशत्रयतिलजलान्यादाय अद्य मदीय. जन्मदिने दीर्घायुष्टुकाम एतान् सोपकरणान् तण्डुलान् यथानामगोत्राय ब्राह्मणाय दातुमहमुत्सृजे। घृताय नम इति घृतं संपूज्य जलेन सिक्त्वा अद्य मदीयजन्मदिने दीर्घायुष्टकाम इदं घृतं प्रजापतिदैवतं यथानामगोत्राय ब्राह्मणाय दातुमहमुत्सृजे। ततस्तिलगुडसहितदुग्धपानम् । तत्र मन्त्रःअसल्यर्द्धमितं क्षीरं सतिलं गुडमिश्रितम् । मार्कण्डेयवरं लब्ध्वा पिवान्यायुष्यहेतवे । इति तिलगुडसहितं दुग्धं पीत्वाऽऽचम्य । मार्कण्डेयाय नमः गोभ्यो नमः ब्राह्मणेभ्यो नमः इति प्रणम्य मार्कण्डेय क्षमस्वेति विसर्जयेत् । अश्वत्थामा वलिासो हनूमाँश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः । सप्तताँश्च स्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः । इति वचनादश्वत्थामादिमार्कण्डेयान्तानष्टौ स्मरेत् । इदं च वर्धापनं यदि जन्ममासोऽसक्रान्तस्तदा शुद्धमास एव कार्य नत्वधिके । इदं वर्धापनं यावद्वाल्यं पित्रादिभिः कार्यम् । पश्चात्तु प्रतिवर्ष स्वयमेवेति । ग्रन्थान्तरे तु माङ्गल्यस्नानं कृत्वा कुमुदादिदेवताः संपूज्य यथाशक्ति ब्राह्मणभोजनं दक्षिणां च दत्त्वा सुवासिनीमिर्नीराजितो धृतनूतनवस्त्रो.ब्राह्मणीभ्यः शिशुभ्यश्वापूपपूरिकाः साज्याः कुमुदादिप्रीतये आयुर्वृद्धये च वायनादि दद्यात् । जन्मरूदेवताप्रीत्यै च दद्यात् । वर्षान्ते सुदृढद्वादशवंशपेटिकाः सुमोदकादिखाद्यं निधाय नूतनवस्त्राच्छादिताः जीवत्पतिपुत्राभ्यो दत्त्वा तदाशिषो गृह्णीयात् । इदं सर्व जीवन्ती मातैवापत्यायुषे कुर्यात् । ' इति श्रीविरग्निचित्सम्राट्स्थपतिश्रीमहायाज्ञिकवामनात्मजदीक्षितगदाधरकृते गृह्यसूत्रभाष्ये प्रथमकाण्डं समाप्तम्।। (विश्व० )-अन्नप्राशनं सूत्रयति । षष्ठेशनमिति । इति । कथमित्यत आह 'स्थाली "जुहोति' स्थालीपाकमिति परिभाषाशास्त्रमाक्षिप्यते । अतः वैश्वदेवपूर्व मातृपूजाभ्युदयिके विधायोपलिप्त उद्धतावोक्षिते लौकिकाग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तीर्येत्यारभ्य
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy