________________
पारस्करगृह्यसूत्रम् ।
[प्रथमा यजमानोपवेशनमुत्तरत एव । अत्र चास्तरणमात्रोपदेशात्, चतुर्थीकर्मणि दक्षिणतो ब्रह्माणमुपवेश्येत्युपवेशनविधानाच न ब्रह्मोपवेशनम् । मैवम् । अदृष्टार्थप्रसङ्गात् । नादृष्टाथै कश्चिदासनप्रकल्पनं कुर्यात् ब्रह्मासनव्यपदेशानुपपत्तेश्च तस्माद्ब्रह्मोपवेशनार्थमेवास्तरणम् । यच्च चतुर्थीकर्मण्युपवेशनमुक्तम् तदुदपात्रस्थापनावसरविधानार्थम् । तस्माद्ब्रह्मोपवेशनं भवत्येव । यदा ब्रह्मा न भवति तदा कौशः कार्य इति हरिहरः तन्मूलं छन्दोगगृह्येऽस्ति । 'प्रणीय' प्रणय. नश्चापां सर्वार्थ प्रदेशान्तरे दृष्टन्तद्ववापि कार्यम् । । परिस्तीर्य अग्नेर्दभैः प्रदक्षिणम्परिस्तरणं कृत्वा । 'अर्थवदासाद्य' अर्थः प्रयोजनम् अग्नरुत्तरतः पश्चाद्वा द्वन्द्वम्प्रयोजनवताम्पात्राणामासादनकार्यक्रमेण मुख्यक्रमानुग्रहात् , पश्चाचेत्याक्संस्थानामुद्गग्राणां प्रागग्राणां वा आसादनम् । उत्तरत उदक्संस्थानां प्रागप्राणामुदगग्राणां वाऽऽसादनं कारिकायाम् । पश्चादुत्तरतो वा स्यात्पात्रासादनमग्नितः । उत्तरेचेदुदसंस्थं प्रासंस्थं पश्चिमे भवेत् ॥ एतच्च विपुलस्थानसम्भवे । असंभवेतु कात्यायनेनोक्तम्-प्राश्चम्पाञ्चमुदगनेरुदगग्रं समीपत इति देवयाज्ञिकाः । 'पवित्रे कृत्वा" कौशे समे अप्रशीर्णाग्रे प्रादेशमाने अनन्तर्गमें कुशैश्छिन्द्यादित्यर्थः । 'प्रोक्षणी: संस्कृत्य' प्रादेशमाने वारणे पात्रे प्रणीतोदकमासिच्य पवित्राभ्यामुत्यूय सज्यहस्ते तत्पात्रं कृत्वा दक्षिणेनोर्ध्वनयनं कृत्वा प्रणीतोदकेन तत्प्रोक्षणं कुर्यात् ततस्तस्मिन्पवित्रनिधानम् । 'अर्थवत्प्रोक्ष्य' तजलेन यथासादितानाम्पात्राणां प्रत्येकम्प्रोक्षणम् । 'निरुप्याज्यम् । औपयिकासादिताज्यस्य स्थाल्यां प्रक्षेपः । चरुश्चेदन तण्डुलानां स्वस्थाल्यामावापः। ' अधिश्रित्य ' तदाज्यमनौ स्थापयेत् चरुन्चेदवावसरे आज्यादुत्तरतोऽनावधिश्रयणम् । 'पर्यग्नि कुर्यात् । अग्नेरुल्मुकं गृहीत्वा आज्यस्य परितो भ्रामयेत् चरुश्चेत्तमपि पर्यग्नि कुर्यात् उपलक्षणार्थत्वादाज्यस्य । 'सुवं प्रतप्य संमृज्याभ्युक्ष्य पुनः प्रतण्य निध्यात् । अग्नौ मुवं तापयित्वा दभैः संमृज्य प्रणीतोदकेनाभ्युक्ष्य पुनस्तापयित्वा निदध्यात् सुवस्यायं संस्कारो होमार्थः । एवञ्च दृष्टार्थता तत्संस्कारस्य । अतः संस्कारविस्मरणे प्रायश्चित्तपूर्वकं प्रागन्त्यहोमात्कार्यः । ऊर्ध्वन्तु प्रायश्चित्तमात्रम् । प्रोक्षण्युकेनाभ्युक्षणमिति गर्गः । 'आज्यमुद्रास्योत्पूयावेक्ष्य' अग्नेः सकाशादाज्यमुत्तरत उदास्य प्रवित्राभ्यामुत्पूय तदाज्यमवलोक्य । चरुश्चेदा
योद्वासनोत्तरं तस्योद्वासनम् । तचैवम् अग्नेः सकाशादाज्यं गृहीत्वा चरोः पूर्वेण नीत्वा अग्नरुत्तरतो निधानम् । ततश्चरुमादायाज्यपश्चिमतो नीत्वा आज्यादुचरतो निधानं, हविपाञ्च यथापूर्वमित्युक्तेः । 'प्रोक्षणीश्च पूर्ववत् । पूर्ववदिति पवित्राभ्याम्प्रोक्षणीरुत्यूय तास्वेव पवित्रनिधानम् । चशब्दादाज्यमपि पूर्वदेव अतः पवित्राभ्यां स्यात् । प्रोक्षणीसंस्कारोऽयम्पर्युक्षणार्थः । ' उपल्यात् । उपयमनाबुगान गृहीता उपतिष्ठन् तिनः समियोऽनावभ्याधाय प्रक्षिप्य प्रोक्षण्युकेनाग्निम्प्रदक्षिणम्परिपिच्य नुवेण वन्यमाणं होमं कुर्यात् । तिष्ठन् समिधः सर्वत्रेत्युक्तेरत्र तिष्ठता समिदाधानम् । समिल्लक्षणश्च स्मृत्यर्थसारे । पलाशस्त्रदिराश्वत्यशम्युदुम्बरजा समित् । अपामार्गादूर्वाश्च कुशाश्चेत्यपरे विदुः ।। सत्वयः समितः कार्या जुन्याः समास्तथा । शस्ता दगाडलास्तास्तु द्वादशाङ्गुलिकास्तु वा ॥ जादीः पालः समच्छेदास्तर्जन्यमुलिवर्तुलाः । अपाटिताश्चाद्विशाखाः कृमिदोपविवर्जिताः । ईदृशा होमवेत्यासः प्राप्नोति विपुलां श्रियमिति । यद्वा । समित्पवित्रं वेदश्च त्रयः प्रादेशसम्मिताः । इध्मस्तु द्विगुणः कार्यविगुणः परिधिः स्मृतः । एप एव विधिर्यत्र कचिद्धोमः' यत्र कचिद्धोमः शान्तिकपीष्टिकादिश्वपि एप एव विधिः स्यान् । एक्कारी मन्त्रप्रतिषेधार्यः । गृह्याग्निव्यतिरगणापि यथायं विभिः स्यादित्येवमयः कचिन्छन्दः । यथा दावाग्निमुपसमाधाय घृताक्तानि कुशेवानि जुगादित्यादी ॥१॥