SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ कण्डिका प्रथमकाण्डम्। १६५ ऽन्नादिना बलिदेयः । विप्रेभ्यश्च ताम्बूलखाद्यदक्षिणादि दद्यात् । जननाशौचमध्ये प्रथमपष्टदशमदिनेषु दाने प्रतिग्रहे च न दोषः । अन्नं तु निषिद्धम् । षष्ठीप्रार्थना । 'गौरीपुत्रो यथा स्कन्दः शिशुत्वे रक्षितः पुरा । तथा ममाप्ययं वालः पष्ठिके रक्ष्यतांनमः' इति षष्ठीपूजा । मिताक्षरायां मार्कण्डेय:रक्षणीया तथा पष्ठी निशा तत्र विशेषतः । रात्री जागरणं कार्य जन्मदानां तथा वलिः ॥ पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः । रात्री जागरणं कुर्युर्दशम्यां चैव सूतके ।' व्यास:-सूतिकावासनिलया जन्मदा नाम देवताः । तासां यागनिमित्तं तु शुद्धिर्जन्मनि कीर्तिता || प्रथमे दिवसे षष्टे दशमे चैव सर्वदा । त्रिष्येतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥ अपरार्के-कन्याश्चतस्रो राकाद्या वातन्त्री चैव पञ्चमी । क्रीडनार्था च वालानां षष्ठी च शिशुरक्षिणी ॥ खड्ने तु पूजनीया वै ब्राह्मगैश्च द्विजातिभिः ॥ राकाऽनुमतिः सिनीवाली कुहूरिति चतस्रः कन्याः॥ ॥ अथ यमयोज्येष्टकनिष्ठभावः संस्कारार्थ लिख्यते । तत्र मनु:-जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् । यमयोश्चैव गर्भपु जन्मतो ज्येष्ठता स्मृता । देवल:-यस्य जातस्य यमयोः पश्यन्ति प्रथम मुखम् । संतान: पितरश्चैव तस्मिन् ज्यैष्ठयं प्रतिष्ठितम् ।। कचित्पश्चादुत्पन्नस्य ज्यैप्टयमुक्तम् । तत्र देशाचारतो व्यवस्था ज्ञेया ॥ ॥ अथ यमलजननशान्तिः । तत्र याज्ञिकाः पठन्ति-अथातो यमलजनने प्रायश्चितं व्याख्यास्यामो यस्य भार्या गौर्दासी महिषी वडवा वा विकृतं प्रसवेत्प्रायश्चिती भवेत्संपूर्णे दशाहे चतुर्णा क्षीरवृक्षाणां काषायमुपसंहरेत्पक्षवटौदुम्वराश्वत्थशमीदेवदारुगौरसर्षपास्तेपामपो हिरण्यदूर्वा कुराम्रपल्लवैः प्रकल्प्य तैरष्टौ कलशान्प्रपूर्य सौंषधीभिर्दम्पती नापयेदापोहिष्ठेति तिसृभिः कयानश्चित्र इति द्वाभ्यां पञ्चैन्द्रेण पञ्चवारुणेनेदमापो अद्येति द्वाभ्यां स्नात्वाऽलंकृत्य तौ दोपर्युपवेश्य तत्र मारुतं स्थालीपार्क अपयित्वाऽऽज्यभागाविष्टाऽऽज्याहुतीर्जुहोति पूर्वोक्तैः स्नपनमन्त्रैः स्थालीपाकस्य जुहोत्यमये स्वाहा सोमाय स्वाहा पवमानाय स्वाहा पावकाय स्वाहा मरुताय स्वाहा मारुताय स्वाहा मरुद्भयः स्वाहा यमाय स्वाहाऽन्तकाय स्वाहा मृत्यवे स्वाहा ब्रह्मणे स्वाहाऽग्नये स्विष्टकृते स्वाहेत्येतदेव ग्रहोत्पातनिमित्तेपूलूकः कङ्कः कपोतो गृध्रः श्येनो वा गृहं प्रविशेस्तम्भं प्ररोहेद्वल्मीक मधुजालं वा भवेदुदकुम्भप्रज्वलनासनशयनयानमझेपु गृहगोधिकाकृकलासशरीरसपणे छत्रध्वजाविनाशे सा नैरते गण्डयोगेष्वन्येष्वप्युत्पातेषु भूकम्पोल्कापातकाकसर्पसङ्गमप्रेक्षणादिष्वेतदेव प्रायश्चित्तं ग्रहशान्त्युक्तेन विधिना कृत्वाऽऽचार्याय वरं दत्त्वा ब्राह्मणान्भोजयित्वा स्वस्तिवाच्याशिषः प्रतिगृह्य शान्तिर्भवति शान्तिर्भवतीति । अथ स्मृत्युक्ता शान्तिः विधानमालायां काशीखण्डे । त्रिविधा यमलोत्पत्तिर्जायते योषितामिह । सुतौ च सुतकन्ये च कन्ये एव तथा पुनः । एकलिङ्गो विनाशाय द्विलिको मध्यमौ स्मृतौ । पित्रोविनकरौ ज्ञेयो तत्र शान्तिर्विधीयते ॥ हेममूर्ती विधातव्ये दस्रयोश्च द्विजोत्तम । पलेन वा तदर्धेन तदर्धाधुन वा पुनः । ब्रह्मवृक्षस्य पट्टे च स्थापयेद्रक्तवाससी।स्वस्तिके तण्डुलानां च न्यस्ते पीठे द्विजोत्तम । पूजयेद्रक्तपुष्पैश्च चन्दनेनानुलेपयेत् । दशाङ्गेनैव धूपेन धूपयेत्प्रयतः पुमान् । दीपैर्नीराजयेच्चैव नैवेद्यं परिकल्पयेत् । यस्मै त्वं सुकृते जातवेदइति मन्त्रेणाक्षतैरर्चयेत् । अनेनैव तु मन्त्रेण होमं कुर्यादतन्द्रितः । अष्टोत्तरसहस्रं च पायसेन ससर्पिषा । शान्तिपाठं जपेद्विद्वान्सूर्यसूक्तं जपेत्ततः । विष्णुसूक्तं तथा गाथां वैश्वदेवीं जपेद्बुधः । अश्वदानं ततो दद्यादाचार्याय कुटुम्बिने । तयोर्मूर्ती प्रदातव्ये यजमानेन धीमता ॥ तत्र दानमन्त्रः-अश्वरूपौ महाबाहू अश्विनी दिव्यचक्षुषौ । अनेन वाजिदानेन प्रीयेतां मे यशस्विनौ । अथ मूर्तिदानमन्त्रः । आचार्यः प्रथमो वेधा विष्णुस्तु सविता भगः । दस्रमूर्तिप्रदानेन प्रीयतामश्विनौ भगः । ततोऽभिषेचनं कार्य दम्पत्योर्विधिवबुधैः । ब्राह्मणान्भोजयेत्पश्चादक्षिणाभिश्च तोषयेत् । सालंकारैश्च वस्त्रैश्च प्रार्थयेद्वचनैः शुभैः ।। एवं कृते विधाने तु यमलोत्पत्तिशान्तिकम् । जायते नात्र संदेहः सत्यमेत
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy