________________
१५९
कण्डिका ]
प्रथमकाण्डम् ।
}
आपो देवेष्वित्यादिना जाग्र्येत्यन्तेन मन्त्रेण । ' द्वारदेशे " 'शण्डामर्का' इत्यादि । ततः पञ्चभूसंस्कारपूर्वकं द्वारदेशे सूतिकागृहस्य सूतिकानिं स्थापयित्वा ओत्थानात् उत्थानं यावत् संधिवेलयोः सायं प्रातः फलीकरणमिश्रान् फलीकरणैः तण्डुलकणैः मिश्रान् युक्तान् सर्पपान् तस्मिन्नन्नौ आवपति जुहोति द्वे आहुती शण्डामर्का इति आलिखन्नानिमिप इति द्वाभ्यां मन्त्राम्याम् । आवपनोपदेशात् होमेतिकर्तव्यतानिवृत्तिः । नैमित्तिकमाह 'यदि कुर्कुर' इत्यादि । यदि चेकुमारो वालग्रहः तं बालमुपद्रवेत् अभिभवेत् तदा तं बालं जालेन मत्स्यग्रहणसाधनेन तदलाभे उत्तरीयेण वा वाससा प्रच्छाद्य छादयित्वा अङ्के उत्सङ्गे निधाय धृत्वा कुर्कुर इत्यादिकमपहरेत्यतं मन्त्रं जपति । अभिमृशति न नामयतीति । जपान्ते कुमारस्य सर्वाङ्गमभिमृशति, न नामयतीत्यादि यत्र चाभिमृशामसीत्यन्तेन मन्त्रेणेति सूत्रार्थः ॥ ॥ अथ प्रयोगः । अथ प्रसवशूलवत्यभिमन्त्रणादि कुमारोपद्रवशमनान्तानां चतुर्दशानां प्रयोगः | सोष्यन्तीं स्त्रियमेजतु दशमास्य इत्यनयच अस्रजराणा सहेत्यन्तया अद्भिरभ्युक्षति पतिः । ततः स्त्रीसमीपे अवैतु पृनिशेवल:- शुने जराखत्तवे नैवमासेन पीवरीं न कस्मिंश्वनायतनमवजरायुपद्यतामित्यन्तमवरावपतनं मन्त्रं जपति । तत्र यदि कुमार उत्पद्यते तदा मातृपूजाभ्युदयिके विधाय अच्छिन्ने नाले मेधाजननायुष्ये करोति । तत्र मेधाजननं यथा । अनामिकयाऽङ्गुल्या सुवर्णेनान्तर्हितया मधुघृते मेलयित्वा केवलं घृतं वा कुमारं भूस्त्वयि दधामि भुवस्त्वयि दधामि स्वस्त्वयि दधामि भूर्भुवः स्वः सर्वे त्वयि दयामीत्यनेन मन्त्रेण सकृत्प्राशयति । अथायुष्यं करोति तद्यथा कुमारत्य नाभिसमीपे दक्षिणकर्णसमीपे वा अग्निरायुष्मानित्यादिकान् समुद्र आयुष्मा नित्यन्तानष्टौ मन्त्रान् त्रिर्जपति । अन्निरायुष्मान्त्सवनस्पतीभिरायुष्मांस्तेन वायुपायुष्मन्तं करोमि । सोम आयुष्मान्त्सौपधीभिरायुष्मॉस्तेन त्वायुपायुष्मन्तं करोमि । ब्रह्मायुष्मत्तद्ब्राह्मणैरायुष्मत्तेन त्वायुपायुष्मन्तं करोमि । देवा आयुष्मन्तस्तेऽमृतेनायुष्मन्तरतेन त्वायुपायुष्मन्तं करोमि । ऋपय आयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन वायुपायुष्मन्तं करोमि । पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वायुपायुष्मन्तं करोमि । यज्ञ आयुष्मान्त्स दक्षिणाभिरायुष्मांस्तेन त्वायुपायुष्मन्तं करोमि । समुद्र आयुष्मान्त्स स्रवन्तीभिरायुमांस्तेन त्वायुषायुष्मन्तं करोमि इति । ततस्त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषं यद्देवेषु त्र्यायुषं तन्नो अस्तु त्र्यायुपमिति । इति मन्त्रं त्रिर्जपति । स पिता यदि कामयेत अयं कुमारः सर्वमायुरिचादिति तदा तं कुमारं दिवस्परीत्यारभ्य उशिजोविवचुरित्यन्तेन वात्सप्रसंज्ञकेनानुवाकेनाभिमृशेत् । अथ कुमारस्य पूर्वादिचतसृषु दिक्षु चतुरो ब्राह्मणान् एकं मध्ये च अवस्थाप्य इममनुप्राणितेति तान् ब्रूयात् । ततः पूर्वदिस्थितो ब्राह्मणः कुमारं लक्षीकृत्य प्राण इति । दक्षिणो व्यान इति । पश्चिमः अपान इति । उत्तर उदान इति । पञ्चमः समान इति उपरिष्टादवेक्षमाणो ब्रूयात् । अविद्यमानेषु तु त्राह्मणेषु स्वयमेव तस्यां तस्यां दिशि कुमाराभिमुखं स्थित्वा प्राणेत्यादिपूर्वोक्तं ब्रूयात् । अस्मि न्यक्षे प्रैषो न । ततो यस्मिन्देशे कुमारो जातो भवति तं देशं वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शतः शृणुयाम शरदः शतमित्यन्तेन मन्त्रेणाभिमन्त्रयते । अथैनं कुमारम् अश्मा भव परशुर्भव हिरण्यमस्रुतं भव । आत्मा वै पुत्र1 नामासि स जीव शरदः शतमित्यन्तेन मन्त्रेणाभिमृशति । अथास्य कुमारस्य मातरमभिमन्त्रयते ! इडास मैत्रावरुणी वीरे वीरमजीजनथाः । सा त्वं वीरवती भव यास्मान्वीरवतोऽकरदित्यनेन मन्त्रेण । अथास्य कुमारस्य मातुः दक्षिणं स्तनं प्रक्षाल्य प्रयच्छति इमर्थं स्तनमित्येतयच । तत उत्तरं वामं प्रक्षाल्य प्रयच्छति यस्ते स्तन इमथं स्तनमित्येताभ्यामृग्भ्याम् । ततः कुमारस्य शिरः - प्रदेशे जलपूर्ण पात्रं निदधाति स्थापयति । आपो देवेषु जाग्रथ यथा देवेषु जाग्र्थ एवमस्यार्थं सूति -
1