SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पारस्करगृह्यसूत्रम् । [प्रथमा कुशतरुणैरप्रतः प्रादेशमात्रं विहाय द्वे कुशतरुणे प्रच्छिद्य । 'प्रोक्षणीः संस्कृत्य' प्रोक्षणीपात्रं प्रणीतासन्निधौ निधाय तत्र पात्रान्तरेण हस्तेन वा प्रणीतोदकमासिच्य पवित्राभ्यामुत्पूय पवित्रे प्रोक्षणीषु निधाय दक्षिणेन हस्तेन प्रोक्षणीपात्रमुत्थाप्य सव्ये कृत्वा तदुदकं दक्षिणेनोच्छाल्य प्रणीतोदकेन प्रोक्ष्य । 'अर्थवत्प्रोक्ष्य' अर्थवन्ति प्रयोजनवन्ति आज्यस्थाल्यादीनि पूर्णपात्रपर्यन्तानि प्रोक्षणीभिरद्भिरासादनक्रमेणैकैकशः प्रोक्ष्य असञ्चरे प्रणीताग्न्योरन्तराले प्रोक्षणीपात्रन्निधाय । 'निरुप्याज्यम्' आसादितमाज्यमाज्यस्थाल्यां पश्चादग्नेनिहितायाम्प्रक्षिप्य, चरुश्वेश्चरस्थाल्याम्प्रणीतोदकमासिच्य आसादितास्तण्डुलान्प्रक्षिप्य । ' अधिश्रित्य तत्राज्यं ब्रह्माधिश्रयति तदुत्तरतः स्वयं चरमेवं युगपदग्नावारोप्य । 'पर्यग्नि कुर्यात् ' ज्वलदुल्मुकं प्रदक्षिणमाज्यचोः समन्ता भ्रामयेत् अर्द्धशृते चरौ । 'सुवं प्रतप्य , दक्षिणेन हस्तेन सुवमादाय प्राञ्चमधोमुखमग्नौ तापयित्वा । सव्ये पाणौ कृत्वा दक्षिणेन सम्मार्गार्मूलतोऽप्रपर्यन्तम् 'सम्मृज्य ' मूलैरग्रमारभ्य अधस्तान्मूलपर्यन्तम् । 'अभ्युक्ष्य' प्रणीतोदकेनाभिषिच्य । 'पुनः प्रतप्य निध्यात् । पुनः पूर्ववत्प्रतप्य दक्षिणतो निध्यात् । 'आज्यमुद्रास्य' आज्यमुत्थाप्य चरोः पूर्वेण नीत्वाऽग्नेरुत्तरतः स्थापयित्वा चरुमुत्थाप्य आज्यस्य पश्चिमतो नीत्वा आज्यस्योत्तरतः स्थापयित्वा आज्यमग्नेः पश्चादानीय चरञ्चानीय आज्यस्योत्तरतो निधाय, एवं विचतुरादीन्यन्यान्यपि हवींष्युद्वासयेत् । अधिशृतानाम्पूर्वेणोद्वासितानाम्पश्चिमतो हविष उद्वास्यानयनमिति याज्ञिकसम्प्रदायात् । 'उत्पूय ' ऊर्ध्वं पूर्ववत् पवित्राभ्याम् । अवेक्ष्य । अवलोक्याज्यं तस्मादपद्रव्यनिरसनम् । 'प्रोक्षणीश्च पूर्ववत् । पवित्राभ्यामुत्पूय पूर्ववत् । 'उपयमनान् कुशानादाय' दक्षिणपाणिना गृहीत्वा सव्ये निधाय । 'समिधोऽभ्याधाय ' तिष्ठन्समिघः प्रक्षिप्य । 'पर्युक्ष्य जुहुयात् । प्रोक्षण्युदकेन सर्वेण सपवित्रेण दक्षिणचुलुकेन गृहीतेन अग्निमीशानादि उद्गपवर्गम्परिषिच्य जुहुयात् आघारादीन् । संस्त्रवधारणाथै पात्रं प्रणीताग्न्योर्मध्ये निदध्यान् । 'एष एव विधिर्यत्र कचिद्धोमः' एषः परिसमुहनादिपर्युक्षणपर्यन्तो विधिरेव न मन्त्राः क्वचित् यत्र कचन लौकिके स्मार्ते वाऽग्नौ होममात्र तत्र वेदितव्यः ॥ १॥ (४) गदाधरकृतं गृह्यसूत्रभाष्यम् । आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः । हतवान् राक्षसानीकं रामं दाशरथिं भजे ॥१॥ स्वाभिप्रायेण हि मया न किञ्चिदिह लिख्यते । किन्तु वाचनिकं सर्वमतो ग्राह्यश्च निर्भयैः ॥ २॥ अथातोऽधिकार इत्यादिना श्रौतानि कर्माण्युक्तानि तदनन्तरं स्मार्तानि विधीयन्ते । तत्रैतप्रथमं सूत्रम्-'अथातो गृह्यस्थालीपाकानाकर्म । उच्यत इति सूत्रशेषः ॥ ौतानन्तर्यप्रज्ञस्यर्थोऽयमथशब्दः । आनन्तर्यप्रज्ञापनन्तु अथातोऽधिकार इत्यादि यत्साधारणन्तस्य प्रवृत्त्यर्थम् । श्रौतानामुपनिवन्धनम्पूर्वमिति प्रोष्येत्य गृहानुपतिष्ठते पूर्ववदित्येतत्सूत्रप्रवृत्त्या ज्ञायते । अत इति हेतुः । यतः औतान्युक्तानि स्मार्तान्येवावशिष्यन्तेऽतस्तान्युच्यन्ते । ननु पूर्वम् गर्भाधानादीनामनुष्टानात्पूर्वमनुष्ठानक्रमेण स्मार्तान्येव वक्तव्यानीति चेत् मैवम् । श्रौतेपु हि प्रत्यक्षपठिताः श्रुतयः स्मातेपु च पुनः कर्तृसामान्यादनुमेयाः श्रुतयः । स्मार्तानामपि हि वेदमूलत्वमुक्तं भट्टैः । तस्मात्प्रत्यक्षश्रुतित्वाच्छ्रोतानामेव पूर्वमभिधानम् । स्मरणादेव स्मृतीनां प्रामाण्यमिति कर्कोपाध्यायैरुपन्यस्तम् । गृह्यः शालाग्निः तत्र ये स्थालीपाकास्ते गृह्यस्थालीपाकाः तेषां गृह्य
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy