SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२४ पारस्करगृह्यसूत्रम् । [एकादगी ण्डालादिस्पर्शऽप्यनशनमेव प्राकशुद्धेः । कामतस्तु प्रथमेऽह्नि व्यहः, द्वितीये यहः तृतीये एकाहः । श्वस्पर्शे तु व्यह एकाहो वा । भुखानायाश्वाण्डालादिस्पर्शे पडात्रम् । उच्छिष्टयोः स्पर्श तु कृच्छ्र इत्यादि मिताक्षरायां नेयम् । स्मृत्यर्थसारे तु-सर्वत्र वालापत्यास्पर्शे स्नाने कृते भुक्तिः पश्चादनशनप्रत्याम्नाय इति । स्नानविधि चाह पराशरः-स्ताने नैमित्तिके प्राप्ते नारी यदि रजस्वला । पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चन्त । सिक्तगात्रा भवेदङ्गिः साङ्गोपाङ्गा कथंचन । न वखपीडन कुर्यान्नान्यद्वासश्च धारयेत् । व्रतान्याह मदनपारिजातं वसिष्ठः-सा नाळ्यान्नाभ्यञ्ज्यानाप्सु स्तायादधः शयीत न दिवा सुप्यान्न रज्जु सृजेत् न मांसमभीयान्न ग्रहानिरीक्षेत न हस्तेन किंचिदाचरेदखर्वेण पात्रेण पिवदञ्जलिना वा पात्रेण लोहितायसेन वेति । खर्वो वामहस्तः । 'यथाकामी""चनात्' । स्त्रियाः काममनतिक्रम्य यथाकामं तदम्यास्तीति यथाकामी वा भवेत् । न नियम ऋतावेवेति, कुत एतत् ? काममाविजनितोः संभवामेति वचनात्, कामं स्वेच्छया आविजनितो: आप्रसवात् संभवाम भत्री सह संगता भवामेत्यर्थः । तथा तैत्तिरीयश्रतौ-स इन्द्रः स्त्रीपंससादमुपासीदन् अस्यै ब्रह्महत्यायै तृतीयं प्रतिगृहीतेति ता अब्रुवन्वरं वृणामहे अस्त्रियात्प्रजा विन्दामहै काममाविजनितोः संभवामेति तस्मादत्वियात्रियः प्रजा विन्दत इति । अस्यार्थः स इन्द्रः खीणां पंससादं समूहम उपासीढन उपससाद पत्वं छान्दसम् अस्य अन्याः ब्रह्महत्याया-तृतीयांशं प्रतिगृहीतेति ता अनुवन् वरं वृणामह ऋतुसंवन्धिगमनम ऋत्वियं तस्मात् आविजनम आविजनितुः तस्मात् आविजनितो आगर्भप्रसवकालात् संभवाम पुरुपेण संयुक्ता भवाम । एवं च सति विकल्पोऽयम् । तथाच स्मृतिः-ऋता. बुपेयात्सर्वत्र वा प्रतिपिद्धवजेमिति । 'अथास्यै ..गतमिति' अथ मैथुनोत्तरं अस्या भार्याया दक्षिणांसं दक्षिणस्कन्धमधि उपरि स्वहस्तं नीत्वा तेनैव हस्तेन हृदयमालभते स्पृशति यत्ते सुसीम इतिमन्त्रेण । अत्र कर्कभाष्यम् हृदयालम्भवाभिगमनोत्तरकालीनः प्राकालीन इत्यपरे । अप्रयतत्वादिनि । नैतदिति जयरामः, यतो गर्भसंभावनायां तदुपयुज्यते । प्रयतत्वं च शौचादिनाऽपि स्यादेव । ययाऽऽह याज्ञवल्क्यः-ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतम् । अनृतौ तु सदा गच्छदछौचं मूत्रपुरीपवदिति । अभिगमनानन्तरमनाचान्त एव दक्षिणा-समधिहृदयमालभत इति भर्तृयज्ञः । मन्त्रार्थ:-शोभना सीमा मूनि केशमध्ये पद्धतिर्यस्याः सा तस्याः संवोधनं हे सुमीमे शोभनसीमन्तिनि यत्ते तव हृदयं मनः दिवि स्वर्गे वर्तमाने चन्द्रमसि श्रितं तदधीनतया स्थितम् तदहं वेद जानीयाम् तच्च मां विद्यात् जानातु एवं परस्परानुगुणितहृदयाऽपत्यादिसहिता वयं शरदः शतमित्याद्यक्तार्थम् । 'एवमत ऊर्ध्वम् प्रथमतों यथा हृदयालम्भः कृतः एवमनेन प्रकारेण अतोऽनन्तरमूर्ध्वम् ऋतावृतो हृदयालम्भः कार्यः । हरिहरव्याख्या चैवम् । एवमनेन प्रकारेणातोऽनन्तरम् ऋतावृतौ प्रवेशनं यथाकामं वेति । इति एकादशीकण्डिका ॥ ११ ॥ अथ पदार्थक्रमः । तत्र चतुर्थ्यामपरराने स्नानपूर्वकं गृहाभ्यन्तरतः कर्म कार्यम् । देशकालौ स्मृत्वा विवाहामु चतुर्थीकर्म करिष्य इति संकल्पः । ततो वैवाहिकमग्निं स्थापयेत् ब्रह्मोपवेशनम् । अग्नेरुत्तरत उदपावनिधानम् । ततः प्रणीताप्रणयनाद्याज्यभागान्तमाधानवत् । आज्यभागान्ते स्थाल्याज्येन पञ्चाहुतयो होतव्याः । अग्नेप्रायश्चित्त इति प्रथमा इदमग्नये न मम । वायो प्रायश्चित्ते इति द्वितीया इदं वायवे न० । सूर्य प्रायश्चित्त इति तृतीया इदं सूर्याय न० । चन्द्र इति चतुर्थी इदं चन्द्राय । गन्धर्व इति पञ्चमी इदं गन्धर्वाय न० । ततश्चरं सुवेणादाय प्रजापतये स्वाहेति होमः इदं प्रजापतये न० । अग्न इत्यादिपण्णामाहुतीनां संस्रवाणामुदपाने प्रक्षेपो हुत्वाहुत्वैव अन्यासामन्यत्र । ततः विष्टकृदादिदक्षिणादानान्तम् । तत उदपात्रजलेन वधूमूर्ध्नि या ते पतिन्नीत्यभिपेकः । असौ स्थाने नामग्रहणम् । हे प्रिये इति । ततो वरः प्राणैस्त इति चरु
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy