SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् । कण्डिका ] ११९ (जयरामः )-अथ विवाहशेषः कथ्यते-चतुथ्यों चतुर्थेऽहनि अपररात्रेऽभ्यन्तरतोऽग्निमुपसमाधायेति ग्रहणस्य विवाहशेषत्वाद्वहि:शालायां माभूदित्यभ्यन्तरग्रहणम् । पूर्वाहव्युदासाथै चाऽपररात्रस्य । ब्रह्माणमुपवेश्येति चोदपात्रावसरविधित्सया । 'स्थालीपाकळ अपयित्वेति' तद्भूतोपादानं माभूदिति । आज्यभागाविष्टेत्याज्याहुत्यवसरविवित्सयोक्तम् । अग्नेप्रायश्चित्तेत्येवमादिपञ्चभिर्मन्त्रैः पञ्चाज्याहुतीर्जुहोति वरः। अथ मन्त्रार्थः । तत्र सर्वेषां परमेष्ठी त्रिष्टुप् लिङ्गोक्ता घृतहोमे० । हे अग्ने हे प्रायश्चित्ते सर्वदोषापकरण यतस्त्वं देवानामिन्द्रादीनां मध्ये प्रायश्चित्तिः दोषापाकर्ताऽसि अहं च ब्राह्मण ब्रह्मण्यः वैदिको वा भूत्वा त्वाम् उपधावामि आराधयामि । किंभूतोऽहम् ? नाथकामः आशीष्काम: ऐश्वर्यकामो वा प्रार्थयानो वा । उपधावनप्रयोजनमाह अस्यै अस्याः वध्वाः पतिनी तनूः तन्वा अवयवस्ताम् अस्यै इमामुपकर्तुं नाशय अपनय तुभ्यं स्वाहा सुहुतमस्तु । समुदायवाचकोऽपि तनूशब्दोऽत्रावयववाचको ज्ञेयः । तेन यदस्याः पतिनाशकमङ्गलक्षणं तदपाकृत्य स्वॉ विधेहीत्येतावानेव वाक्यार्थः । एवमुपर्यपि व्याख्येयम् । तनूविशेषणं देवता च भिद्यते । तद्यथा । हे वायो पवन प्रजानी अपत्यनाशिनी । एवमुत्तरत्रापि । स्थालीपाकस्येत्यवयवलक्षणा षष्ठी । हुत्वा हुत्वेति सर्वाहुत्यन्ते माभूदित्येतदर्थम् । ततः संस्रवजलेनैनां वधू मूर्द्धन्यभिषिञ्चति वरो' या ते पतिनी' इति मन्त्रेण । मूर्द्धाभिषेकश्व सर्वान्ते भवत्यागन्तुकत्वात् । अथ मन्त्रार्थः । तत्र प्रजापतित्रिष्टुप् वधूरभिषेके० । असाविति कन्यानामादेशः । हे असौ कन्ये या ते तव पत्यादिघातिनी पञ्चधा दुष्टा तनूः अत एव निन्दिता ततोऽनेनाभिषेचनेन एनां तनूं जारनीम् उपपत्यादिदोषधाविनी करोमि । सा वं मया पत्या भर्ना सह जीर्य निर्दुश्वृद्धत्वं गच्छ । अथैनां वधूं स्थालीपाकशेषं वरः प्राशयति सकृत् प्राणैस्त इति मन्त्रेण । अस्याः । तत्र प्रजापतिर्यजुर्वधूः प्राशने० । हे कन्ये, मम प्राणादिभिस्ते तव प्राणादीन्संदधामि संयोजयामि तस्मादिति हि यस्मात् अस्या एतेन प्राशनाख्यसंस्कारेण भर्ना सहैक्यं वृत्तं तस्माच्छ्रो. त्रियस्य दारेण उपहासमभिगमनं नेच्छेत् । सचैवंवित् एवं कुर्वन्परोभवति पराभवं गच्छति । यद्वा एवंचित् श्रोत्रियः परः शत्रुर्भवति । उत अप्यर्थे । निन्दार्थवादोऽयम् । तामिति साऽनेन प्रकारेणोढा भवति । तामुदुह्य एवमृदा च यथतु ऋतावृतौ प्रवेशनमभिगमनं कुर्यात् । यथाकामीवेति याथाकाम्यं वा स्त्रियाः काममनतिक्रम्यासिगमो भवति न रतावृतावेव । तत् कुतः 'काम "मेति । प्रजापतिना हीन्द्रेण वरो दत्तः स्त्रीणां ताभिश्च वृतः । कामम् इच्छया आविजनितोः विजननकालादासम्भवामेति वचनात्पुंसा सङ्गता गर्भानुपघातेन भवामेति । अतो विकल्पः। तथा च स्मरणम्-ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जमिति । अथेति हृदयालम्भश्चाभिगमनोत्तरकालीनः । प्राक्कालीन इत्यपरे अप्रयतत्वात् । नैतत् । यतो गर्भसंभावनायां तदुपयुज्यते । प्रयतत्वं च शौचादिनाऽपि स्यादेव । यथाऽऽह याज्ञवल्क्यः-ऋतौ तु गर्भशकित्वात्स्नानं मैथुनिनः स्मृतम् । अनृतौ तु सदा गच्छञ्छौचं मूत्रपुरीपवदिति । तत्र मन्त्रः यत्ते सुसीम इति । अस्यार्थः, तत्र प्रजापतिरनुष्टुप् वधूहृदयालम्भने । हे सुसीमे शोभनसीमन्तिनि यत्ते तव हृदयं मनः दिवि स्वर्गे वर्तमाने चन्द्रमसि श्रितं तदधीनतया स्थितं चन्द्राधिष्ठितत्वात्तदहं वेद जानीयां तच्च मां विन्द्यात् जानातु । एवं परस्परानुगुणितहृदया अपत्यादिसहिता वयं शरदः शतमित्यायुक्तार्थम् । एवमत ऊर्ध्वम्' ऋतावृतौ एवमेवाभिगमनाख्यं कर्म कुर्यात् ॥ ११॥ ॥*॥ (हरिहरः)-'चतुर्थ्याम'.."र्जुहोति' चतुर्थी तिथौ विवाहतिथिमारभ्य अपररात्रे रात्रेः पश्चिमे यामे अभ्यन्तरतः गृहस्य मध्ये अग्निं वैवाहिकमुपसमाधाय पञ्चभूसंस्कारान्कृत्वा अग्नि स्थापयित्वा दक्षिणतो ब्रह्मासनमास्तीय तत्र पूर्ववद्ब्रह्माणमुपवेश्य उत्तरत उदपात्रं प्रतिष्ठाप्य प्रणी
SR No.010054
Book TitleParaskar Gruhyasutram
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherManilal Iccharam Desai
Publication Year1917
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy