________________
कण्डिका]
प्रथमकाण्डम्। गणानामधिपतिभ्यः । पितरः पितामहाः परेवरे ततास्ततामहाः इह मावन्त्वस्मिन् ब्रह्मणीत्यादिसमानम् । इदं पितृभ्यः पितामहेभ्यः परेभ्योऽवरेभ्यस्ततेभ्यस्ततामहेभ्यः । उदकस्पर्शनम् । एते अष्टादश मन्त्रा अभ्यातानसंज्ञकाः । अग्निरैतु प्रथमो देवतानाटसोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयह राजा वरुणोऽनुमन्यतां यथेयः स्त्री पौत्रम नरोदात्स्वाहा इदमग्नये ॥१॥ इमामग्निनायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्थाजीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामियः स्वाहा इदमग्नये ।। २ ।। स्वस्ति नो अग्ने दिवआपृथिव्याविश्वानि धेह्ययथा यजत्र । यदस्यां महि दिविजातं प्रशस्तं तदस्मासु द्रविणं घेहि चित्रः स्वाहा इदमग्नये ॥३॥ सुगन्नुपन्थां प्रदिशन्न एहि ज्योतिष्मध्ये हजरन्न आयुः । अपैतुमृत्युरमृतंम आगाद्वैवस्वतोनो अभयं कृणोतु स्वाहा इदं वैवस्वताय ॥ ४ ॥ परं मृत्यो अनुपरेहि पन्यां यस्ते अन्यइतरोदेक्यानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाट रीरिपो मोतवीरान्स्वाहा इदं मृत्यवे ॥ एके संस्रवप्राशनान्ते जुहुयादितीच्छन्ति । उदकस्पर्शः । कुमार्या भ्राता उपकल्पितान् शमीपलाशमिश्राँल्लाजान् शूर्पे कृतान् स्वेनाञ्जलिना गृहीत्वा कुमार्या अञ्जलावावपति तॉल्लाजान् प्राङ्मुखी तिष्ठती कुमारी सन्यहस्तसहितेन दक्षिणहस्तेनाञ्जलिना विवाहाग्नौ जुहोति । “ अर्यमणं देवं कन्या अग्निमयक्षत । सनो अर्यमा देवः प्रेतो मुञ्चतु मा पते स्वाहा " । इत्यनेन मन्त्रेण हस्तस्थितलाजानां तृतीयांशं जुहोति इमर्यम्णे " इयं नार्युपते लाजानावपन्तिका । आयुष्मानस्तुमे पतिरेधन्तां ज्ञातयो मम स्वाहा " इत्यनेन मन्त्रेण पुनरचलिस्थितानां लाजानामर्द्ध जुहोति इदमग्नये ॥ " इमॉल्लाजानावपाम्यग्नौ समृद्धिकरणं तव ममतुभ्यचसंवननंतदग्निरनुमन्यतामियमः स्वाहा " इत्यनेन मन्त्रेण सर्वाल्लाजान् जुहोति इदमग्नये । मन्त्रत्रयं कन्यैव पठति। अथ कुमार्याः साङ्गुष्ठं दक्षिणं हस्तं वरो गृह्णाति । गृभ्णामितेसौभगत्वाय हस्तं मयापत्या जरदष्टियथा सः। भगो अर्यमा सविता पुरन्धिर्मां त्वाऽद्धगार्हपत्यायदेवाः । अमोऽहमस्मि सात्व- सात्वमस्यमो अहम् । सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वं तावेहि विवहावहै सह रेतो धावहै प्रजां प्रजनयावहै पुत्रान् विन्द्यावहै बहून् ते सन्तु जरदष्टयः संप्रियौ रोचिष्णू सुमनस्यमानौ पश्येम शरदः शतं जीवेम शरदः शतम शृणुयाम शरदः शतमित्यन्तेन मन्त्रसंदर्भण । अथ कुमार्याः दक्षिणं पादं स्वदक्षिणहस्तेन गृहीत्वा आरोहेममम्मानमग्मेव त्वद स्थिरा भव अभितिष्ठ पृतन्यतोऽवबाधस्व पृतनायत इत्यनेन मन्त्रेण अग्नेरुत्तरतो व्यवस्थितस्याश्मन उपरि वरः करोति । अथाश्मन्यारूढायां कुमायौ वरो गाथां गायति 'सरस्वति प्रेदमव सुभगे वाजिनीवति । यां त्वा विश्वस्य भूतस्य प्रजायामस्याग्रतः । यस्यां भूतः समभवद्यस्यां विश्वमिदं जगत्। तामद्यगाथां गास्यामि या स्त्रीणामुत्तमं यशः ' इत्यन्ताम् । अथ वधूवरौ प्रदक्षिणमग्निं परिकामतः 'तुभ्यमप्रेपर्यवहन्सूर्या बहतु ना सह । पुनः पतिभ्यो जायां दाग्ने प्रजया सह ' इत्यन्तस्य मन्त्रस्य वरपठितस्यान्ते । एवं पुनर्वारद्वयं लाजावपनादिपरिक्रमणान्तं कर्म निर्विशेपं भवति ततस्तृतीयपरिक्रमणानन्तरं कुमार्या भ्राता शूर्पकोणप्रदेशेन सर्वाल्लॉजान् कुमार्य जलावावपति सा तिष्ठती कुमारी तान् भगाय स्वाहा इत्यनेन जुहोति इदं भगाय । ततः सदाचारातष्णीं चतर्थ परिक्रमणं कुरुतः नेतरथावृत्तिम । अथ प्रजापतये स्वाहेति ब्रह्मास्वामो या
- हुत्वा इदं प्रजापतय इति त्यागं विधाय एनां वधूमुदीची सप्तपदानि प्रकामयति तद्यथा एकमिषे विष्णुस्त्वा नयत्विति वरेणोके मन्त्रे वधूरेकं पदमुदग्ददाति द्वे ऊर्जे विष्णुस्त्वानयविति द्वितीयम् । त्रीणि रायस्पोषाय विष्णुस्त्वा नयत्वित्युक्ते तृतीयम् । चत्वारि मायोभवाय विष्णुस्त्वानयविति चतुर्थम् । पञ्च पशुभ्यो विष्णुस्त्वानयत्विति पञ्चमम् । षड्तुभ्यो विष्णुस्त्वानयविति