SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्व प्रदीपे त्वानुबन्धशीलत्वं वा अनन्तानुबन्धिकपायमोहनीयस्य लक्षणम् । यस्योदये सति अल्पमपि प्रत्याख्यानं न भवति तंदूपत्वम्, देशविरतिप्रतिवन्धकत्वं वाऽप्रत्याख्यानकंपायमोह - नीयस्य लक्षणम् । सर्वविरतिलक्षण मूलगुणप्रतिबन्धकत्वं प्रत्याख्यानकपायमोहनीयस्य लक्षणम् । यथाख्यातचारित्रप्रतिवन्धशीलत्वं, समस्तपापस्थानरहितविरतिभाजोऽपि यतेर्दुः पह परिपहसन्निपाते सति युगपत्संज्वलनशीलत्वं वा संज्वलनकपायस्य लक्षणम् । " १०० पर्वतराजिसदृशोऽनन्तानुबन्धी क्रोधः । तत्र पर्वतः पापाणपुञ्जः, तदेकदेशोऽपि शिलादिविभागरूप उपचारात् पर्वत उच्यते । तस्य राजिर्नामभेद:, पर्वतस्य राजिः पर्वतराजिस्तया सदृशः पर्वतराजिसदृशः, सादृश्यं तु वक्ष्यमाणरीत्या ज्ञेयम् ; - शिलायामुत्पन्ना या राजिः, सा च यावच्छिलारूपं तावदवतिष्ठते, न तस्याः संधानमस्ति, एवमनन्तानुवन्धी क्रोध उत्पन्नः सन् यावज्जीवति तावदनुवर्तते, न च तस्योपचान्तिरस्ति । तदनु मृत्वा च भूयो नरकगमनं भवति । तथा भूमिराजिसदृशोऽप्रत्याख्यानक्रोधः । . 1 १ अल्पप्रत्याख्यानमप्रत्याख्यानं, देशविरतिरित्यर्थः, तत्प्रतिबन्धको द्वितीयः कषायः ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy