SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः । तथा च आत्मशरीरयोः कथञ्चिदैक्यादनाभोगवीयतः कर्मवन्धो भवति । स एव कार्मणशरीर पुद्गलग्रहणकृतो बन्धश्चतुर्विधः । लक्षणतः प्रतिपादितो बन्धः, संप्रति विधानत उच्यते उक्तलक्षणो बन्ध एकोऽपि कार्यभेदात् प्रकृत्यादिविभागमासादयति । यथा मनुष्यः क्रौर्यनीचैस्त्वादिलक्षणकार्यभेदान्नानात्वं प्रतिपद्यते । स च द्वेधा, द्रव्यभावभेदात् । तत्र द्रव्यवन्धस्तृणकाष्ठादिषु प्रसिद्धः । भाववन्धस्तु निगद्यते - भाववन्धञ्चतुर्विधः, प्रकृति-स्थित्यनुभाग-प्रदेशबन्ध - → ६५ · @ भेदात् । अनाभोगपूर्वाध्यवसाय विशेषे सति आहारपरिणामवत् स्थित्यादिलक्षणकर्मपरिणतिरूपत्वं प्रकृतिवन्धस्य - क्षणम् । स च कर्मात्मनोरैक्यतापादनस्वरूपः । कर्त्रा परिगृहीत पूर्वोक्तकर्म पुद्गलराशेरात्म प्रदेशेष्ववस्थानविशेषरूपत्वं स्थितिबन्धस्य लक्षणम् । कालान्तराऽवस्थाने सति विपाकवर्तिपरिणामविशेपरूपत्वं, प्रयोगकर्मणेोपात्तानां शुभाशुभकर्मप्रकृतीनां प्रकृतिस्थितिरूपाणां तीव्रमन्दाद्यनुभावतयाऽनुभवरूपत्वं वा अनुभागवन्धस्य लक्षणम् । स चानुभागबन्धः समासादितपरिपाकावस्थस्य वद
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy