SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वप्रदीपे वर्भवति । कार्याकार्यानपेक्षो भवति । परत्र चाशुभा - ङ्गोपाङ्गो लुब्धकोऽयमिति गर्हितचचनो भवति । ततो - महा क्लेशकारणात् परिग्रहाद् व्युपरमः श्रेयान् । अथवा हिंसादिषु दुःखमेव केवलं भवतीति प्रतिपक्षभावनया भावनीयम् । तत्र दुःखं नामानिष्टसंयोग निमित्तकं शरीरमनः पीडात्मकं व्यापत्तिपर्यवसानमिति । तच्च सच्चानामप्रियं वधवन्धनच्छेदनपाटनादिहेतुकं भवति । ततच हिंसादिपु दुःखमेव भवतीति फलितार्थः । किञ्च, तादृशमहाव्रत स्थैर्यार्थ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यलक्षणाश्चतस्रो भावना अपि भावनीयाः । कृतकारितानुमतिविशिष्टयोगैरन्येषां बाधानुत्पत्तिविषयकचिन्तनरूपत्वं, 'केनापि पापं न कर्त्तव्यं, कोऽपि दुःखी मा भवतु, सर्वेषां च मुक्तिर्भवतु " इत्य। कारचिन्तनरूपत्वं वा मैत्री भावनाया लक्षणम् । सम्यग्ज्ञानतपोऽधिकसाधुजनेषु परात्मोभयकृत पूजाजनितसर्वेन्द्रियाभिव्यक्तमनः प्रहर्षलक्षणप्रमोदरूपत्वम्, सम्यग्ज्ञानादिगुणाधिकसाधुजनेषु प्रसन्नमुखादितयाऽभिव्यज्यमानान्तरिकभक्तिरागरूपत्वं वा प्रमोदभावनाया ७४ लक्षणम् । क्लिश्यमानेषु अनुग्रहात्मक परिणामरूपत्वं कारुण्य · भावनाया लक्षणम् -
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy