SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वप्रदीपे- . ... तानि चेन्द्रियाणि पञ्चधा, श्रोत्र चक्षु-णि रसन-स्प: निभेदात् । तत्र-. कदम्बपुष्पाभमांसगोलकरूपत्वं श्रोत्रेन्द्रियस्य लक्षणम् मसूरधान्यसमानाकृतिरूपत्वं चक्षुरिन्द्रियस्य लक्षणम् । अतिमुक्तकपुष्पसमानाकृतिरूपत्वंघ्राणेन्द्रियस्य लक्षणम् क्षुरप्रसमानसंनिवेशरूपत्वं रसनाया लक्षणम् । विविधाकृतिरूपत्वं स्पर्शनेन्द्रियस्य लक्षणम् । पञ्चेन्द्रिया द्विधा-संझ्यसंज्ञिभेदात् । तत्र सुदीर्घातीतार्थस्मरणशीलत्वे सति 'कथं नु नाम कर्तव्यम्' इत्यागाम्यर्थचिन्तनप्रयोजकत्वं संझिनो लक्षणम्। · तद्भिन्नत्वं चासंज्ञिनो लक्षणम् । जीवस्य गतिधा-ऋजु वक्रभेदात् । तत्रएकसामयिकगतिमत्त्वमृजुगतेलेक्षणम् । देहान्तरोपादानाय परभवं मस्थितानां जन्तूनां कुटिलगमनरूपत्वम्, शरीरान्तरनिमित्तभूतभवान्तरवक्रगमनरूपत्वं वा वक्रगतेलक्षणम् । तद्भवसिध्यमानस्य जीवस्य ऋज्वी एव गतिः, अन्येषां तु देश-कालादिकमपेक्ष्य भेजना। चक्रगतिपस्थितानां जन्तूनां कार्मणशरीरेणव सह संवन्धः, न शेपशरीर-वाग्-मनोव्यापारैरिति । कर्मकृतम्, कर्मणो विकारः, कर्पणांसमूहोवा कार्मणम् । साक्षात सुख १ भजना=विकल्पः ऋजुर्वक्रगतिवेत्यर्थः ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy