SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५ भ० : पा० २ सू० ६-१५] महावृत्तिसहितम् कर्तर्येव सिद्ध कर्तृग्रहणमुत्तरार्थम् "न गतिहिंसार्थेभ्यः" [१।२।१] इति । कर्तरि कर्मव्यतिहारे विहितस्य दस्य प्रतिषेधो यथा स्यादिह मा भूत् । व्यतिभूयते सेनया । व्यतिगम्यन्ते ग्रामाः । व्यतिहन्यन्ते दस्यवः । क्रियाव्यतिहार इति किम् ? पारिभाषिककर्मव्यतिहारे मा भूत् । देवदत्तस्य धान्यं व्यतिलुनन्ति । न गतिहिंसार्थेभ्यः ।। २रा || गत्यर्थेभ्यो हिंसार्थेभ्यश्च धुभ्यो आर्थे दो न भवति । व्यतिगच्छन्ति । व्यतिधावन्ति । हिंसार्थेभ्यः । व्यतिहिंसन्ति । व्यतिभिन्दन्ति । व्यतिछिन्दन्ति । व्यन्तिपिंषति । बहुवचननिर्देशो हसादिसंग्रहणार्थः । व्यतिहसन्ति । व्यतिजल्पन्ति । व्यतिपठन्ति । व्यतिकथयन्ति । "वह्योरप्रतिषेधो वक्तव्यः" [वा०] सम्प्रहरन्ते राजानः । व्यतिवहन्ते नयः । गतिहिंसयो प्रतिषेधो गतिहिंसाहेतौ न भवति । व्यतिगमयन्ते । व्यतिभेदयन्ते । परस्परान्योन्येतरतरे ॥ १॥२॥१०॥ परस्पर अन्योन्य इतरेतर इत्येतेषु प्रयुक्तेषु आर्थे दो न भवति । परस्परस्य व्यतिलुनन्ति | अन्योन्यस्य व्यतिलुनन्ति । इतरेतरस्य व्यतिलुनन्ति । व्यतिभ्यां द्योतितेऽपि कर्मव्यतिहारे परस्परादिपदप्रयोगो द्वावपूपौ भक्षयेति यथा । परस्परादिशब्दानां कथं सिद्धिः । द्वित्वप्रकरणे कर्मव्यतिहारे सर्वनाम्नो द्वित्वम् । “सवच्च बहुलम्" [वा. ] इति वक्ष्यति । . निविशः ॥ २२॥११॥ नि इति स्वरूपस्य ग्रहणं न निसज्ञाया । निपूर्वाद्विशो दो भवति । निविशते । निविशेते । निविशन्ते । लावस्थायामडागमः। तद्भक्तो न व्यवधायकः । न्यविशत | "मम्" [ ११२७५ ] इति में प्राप्तम् । सनिर्देशः समर्थार्थः । सामर्थ्यश्च धोगिना । तेनेह न भवति । मधुनि विशन्ति भ्रमराः । अनर्थकत्वाद्वा । परिव्यवक्रियः ॥११२।१२॥ परि वि अव इत्येवंपूर्वात् क्रीणातेयॊ भवति । परिक्रीणीते । विकीणीते । अवक्रीणीते । अकाप्ये फले विधिरयम् । अनर्थकवादिह न भवति । उपरि क्रीणाति । गवि क्रीणाति । अपचाव क्रीणीवः । क्री इति अनुकरणम् । अनुकार्येणार्थवत्त्वान्मृत्वे सति स्वादिविधिः। "प्रकृतिवदनकरणम्" इति धुलातिदेशादियादेशः । उत्तरत्र जेरिति निर्देशात् वत्करणादपि स्वाश्रयोऽपि क्वचिदेव । विपराजेः ॥१२१३॥ वि परा इत्येवंपूर्वाजयतेो भवति । विजयते । पराजयते । अत्रापि सनिदशः समर्थस्य गेग्रहणार्थः । तेनेह न भवति । बहुविजयति वनम् । पराजयति सेना । आङो दोऽव्यसने ॥२॥१४॥ व्यसनं विकसनं विवरणं वा। अन्येषां दारूपाणां व्यसने वृत्तिर्नास्ति । आपूर्वाददातेरव्यसनेऽर्थे दो भवति । विद्यामादत्त । अकळये फले प्रापणार्थमिदम् । अव्यसनमिति किम् ? आस्यं व्याददाति । पिलकं व्याददाति । विपादिकां व्याददाति । "स्वाङ्गकर्मकादिति वक्तव्यम्" [वा. ] इह मा भूत् । व्याददते पिपीलिकाः पतङ्गमुखम् । यद्यक प्ये फले प्राप्तस्याव्यसन इति प्रतिषेधः काप्ये फले व्यसने दः प्राप्नोति । नैवम् । अव्यसन इति योगविभागाद येन केनचित्प्राप्तस्य प्रतिषेधः। श्राङिति ङित्करणं किम् ? श्रा ददात्यसौ भिक्षामिदानीमहमस्मार्षम् । आङिति योगविभागः । तेन स्थः प्रतिज्ञाने दो भवति । अनित्यं शब्दमातिष्ठन्ते । “गमयते: कालहरणे” [ वा० ] अागमयस्व तावद्देवदत्त । "नुप्रच्छिभ्याञ्च" [वा०] । आनुते शृगालः । श्रापृच्छते गुरुमिति सिद्धम् । क्रीडोऽनुपर्याङः ॥२२॥१५॥ अनु परि श्राङ् इत्येवंपूर्वान् क्रीडो दो भवति । अनुक्रीडते । परिक्रीडते । आक्रीडते । गिसाहचर्यादनोर्गे रेव ग्रहणादिह न भवति । माणवकमनु क्रीडति । माणवकेन सहेत्यर्थः । "भार्थे [१४।१४] इत्यनुना योग इप गितिसज्ञाप्रतिषेधश्च । “शिक्षेर्जिज्ञासायां दो वक्तव्यः' [ वा०] शकेः सन्नन्तस्येदं ग्रहणम् । विद्यासु शिक्षते। धनुषि शिक्षते । कर्मविवक्षायां विद्याः शिक्षांचक्रे । “हरतेर्गतिताच्छील्ये' [वा०] पैतृकमश्वा अनुहरन्ते मातृकं गावः । मातुरागतम् "ऋतष्ठञ्” [ ३।३।५२ ] इति ठत्र । १. बहु मुवि जय-ब०। २. अपरा अ०। ३. -मातिष्ठते अ०, ब०, स०। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy