SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० १ पा० १ सू० ६८-७२ सुपा श्रितादयो विशेष्यन्ते न तु श्रितादिभिः किञ्चिद्विशेषणेन च तदन्तविधिः । मृदा नडादयो विशेष्यन्ते न नडादिभिर्मदः । उगिता च वर्णेन मृद् विशेष्यते । अलीति वर्णनिर्देशः । अलि यो विधिः स तदादौ भवति । "श्नुधुभ्रुवां स्वोरचीयुवौ' [४१४७२] चिक्षियतुः । चिक्षियुः। व्यपदेशिवद्भावेन केवलेऽपि तदादिलम् । चिक्षिये । येनेति करणे भा । विधिशब्दः कर्मसाधनः । अवाद्यैब्दुः ॥ १।१।६८ ।। अक्ष्विति जातिनिर्देशो निर्धारणे चेप् । अक्षु श्रादिभूतोऽच् ऐप् यस्य समुदायस्य स दुसंज्ञो भवति । ऐतिकायनस्य शिष्य ऐतिकायनीयः “दोश्छः'' [३।२।६०] इति छः । आम्बष्ठस्यापत्यमाम्बष्ठ्यः "द्वित्कुरुनाद्यजादकोशलाइज्यः" [३।१।१५३] इति व्यः। दुघणा अस्मिन्देशे सन्ति "वुन्छणकठेल" [३।२।६.] आदिसूत्रे अरीहणादित्वाद् वुञ् । द्रौघणके जातो द्रौघणकीयः "दोः कखोल" [२१११७] इति छः । अदिवति किम् ? हलाविवक्षार्थम् । श्रोपगवीयः । कापटवीयः। जात्यपेक्षया बहुत्वं किम् ? दूधच एकाचश्च दुसंज्ञा यथा स्यात् । मालामयम् । वाङमयम् । आदिरिति किम् ? सभासन्नयने जातः साभासन्नयनः। छः प्रसज्येत । ऐबिति किम् ? दत्तस्यायं दात्तः । दुप्रदेशाः "दोश्छः"[ ३१०] इत्येवमादयः । त्यदादि । शश६।। त्यदादीनि शब्दरूपाणि दुसंज्ञानि भवन्ति । अवादिरिति नेहाभिसंबध्यते । यद्यभिसंबध्येत तदोपसर्जनत्वे सत्यपि वचनात्तदादेव दुसंज्ञा स्यान्न केवलानामिति । त्यदीयः। तदीयः । तवापत्यं खादायनिः। मादायनिः । “वा वृद्धाद् दो:" [३।१।१४४ ] इति फिञ् । त्यदादिः सर्वादेरन्तर्गण श्रा परिसमाप्तः। एङ् प्राग्देशे ।। १।११७० ।। अक्ष्वादेरिति वर्तते । एङ, यस्याचामादिस्तद् दुसंज्ञ भवति प्राची देशाऽ भिधाने । एणीपचने जात एणीपचनीयः । एवं गोनीयः। भोजकटीयः। एङिति किम् ? आहिच्छत्रः । कान्यकुब्जः । प्राग्ग्रहण किम् ? देवदत्तो नाम वाहीकेषु ग्रामस्तत्र भवो देवदत्तः । देश इति किम् ? गोमती नाम नदी तस्यां भवो गौमतः । “या नाम्नः" [११] इति यदा दुसंज्ञा नास्ति तदेदमुक्तम् । “भिन्नलिङ्गो नदीदेशोऽग्रामोऽपुरम्' [ ११४८३ ] इति ज्ञापकान्नदी देशग्रहणेन न गृह्यते । शरावती नाम नदी तस्याः पूर्वो देशः प्राग्देशः । उत्तरस्तूदीचां देशः। या नाम्नः॥ ॥१७१ ॥ पुरुषैर्व्यवहाराय सङ्केतितः शब्दः संज्ञा नाम । नामधेयस्य वा दुसंज्ञा भवति । पद्मनन्दीयम् । पाद्मनन्दिनम् । देवदत्तीयम् । देवदत्तम् । नाम्न इति किम् ? देवदत्त इति यः क्रियानिमित्तको देवदत्तशब्दस्तस्य काश्यादिषु पाठाहावेव भवतः । वेति व्यवस्थितविभाषा । तेन घृतप्रधानो रोदिः धृतरौदिः। संज्ञेयम् । तस्य शिष्या घृतरौदीयाः । एवमोदनपाणीयाः। वृद्धाम्भीयाः। वृद्धकाश्यपीयाः । नित्यं दुसंज्ञा । "जिह्वाकात्यहरितकात्ययो भवत्येव' [ वा. ] जैह्वाकाताः। हारितकाताः । अणुदित् स्वस्यात्मनाऽभाव्योऽतपरः ॥ १।१।७२ ॥ अण, उदिच्च गृह्यमाणः स्वस्य ग्राहको भवति श्रात्मना सह भाव्यमानं तपरं च वर्जयित्वा । इदमणग्रहणं परेण णकारेण । “ऋतः रफादेरेप्' [२२११२२] इति तपरनिर्देशाज्ञायते । “यस्य कथा च" [ ४।४।१३६ ] दाक्षिः । चौलिः । दैत्यः । कौमारः । "अस्य वौ' [।१४१] शुक्लीभवति । मालीभवति । उदित्-"स्तोः च ना :" [१४११६] " ना टुः" [१४।१२० ] । अभाव्य इति किम् ? भाव्यन्ते उत्पाद्यन्ते त्यादेशटिकिन्मितस्ते स्वस्य ग्राहका न भवन्ति । "अस्त्यात्" [ २२३८४ ] "त्यदादेरः" [ २११६१ ] टित्-लविता। कित्-बभूव । मित् । "सृजिशोरम्" ३।११। अतपर इति किम ? भिसोऽत ऐस" [ 1। वनैः । खटवा भिरित्यत्र न भवति । तकार इद्यस्य सोऽयं तिदिति सिद्ध परग्रहणमुभयार्थम् । तः परोऽस्मात्तपरस्तादपि परस्त १. इतिकस्यापत्यं पुमान् ऐतिकायनः । नडादेः फणिति फण् । ३. प्रश्नादेरित्यर्थः । ४. वृद्धान्तीयाः ब०, स०। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy