SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्र० पा० १ सू० ४६-४८] महावृत्तिसहितम् विदुषः पश्य । शास्त्रान्तरेण भूतो यणः स्थाने इ स जिसंज्ञो यथा “जेः" [४।३।१५] इति परपूर्वत्वम् , जेरिति दीत्वम् । हूतः । गृहीतः । यदि यणः स्थाने इक् भाव्यमानो जिसंज्ञ इहापि स्यात् , अदुहितराम् । अक्षाभ्याम् । अनवा । दुह प्रात्मकर्मणि लङ्। "स्नोश्च जिश्च' [२।११५६] इति जियकोः प्रतिषेधः । शप तस्याप । अत्र लस्य स्थाने इट् वकारस्य स्थाने उदूठा? ततश्च "ज" ||३१५] इति परपवत्वं हल" [ २] इति दीत्वं च प्रसज्येत । नायं दोषः, भाविन्या संज्ञया विधीयमानस्येको जित्वात। "कार्यकालं संज्ञापरिभाषम" इति । जिप्रदेशाह " ब्यस्य पुत्रपत्योर्जिः" [३६] इत्येवमादयः ता स्थाने ॥ ४६॥ येयमनुसूत्रमुच्चारिता ता सा स्थान एव ज्ञातव्या । बह्वो हि तार्थाः। स्वस्वामिसंबन्धसमीपसमूहविकारावयवस्थानादयः । तेषु प्राप्तेषु नियमः क्रियत-अन्यार्थसंप्रत्ययो मा भूदिति । नित्यशब्दार्थसंबन्धविवक्षायां स्थानशब्दः प्रसङ्गवाची। प्रसङ्गश्च प्राप्ताहवं स्वार्थप्रत्यायकावसरो वा। यथा गरो स्थाने शिष्य उपचर्यते इति गुरोः पसङ्ग इति गभ्यते । एवमस्तेः स्थाने प्रसङ्ग भूः। भविता । भवितम । भवितव्यम् । ब्रजः प्रसङ्ग वचिर्भवति । वक्ता । वक्तम् । वक्तव्यम् । अनित्यशब्दार्थसम्बन्धविवक्षायामपकवाची स्थानशब्दः । यथा गोः स्थाने अश्वं बन्नाति । एवमस्तेः स्थानेऽपकर्षे भूर्भवति । अस्तेरनन्तरमस्ते समीप इत्येवमादयो निवर्तिता भवन्ति । यत्र तानिर्देशे सम्बन्धविशेषो न निर्मातस्तत्रयं परिभाषोपतिष्ठते । शास इत्येवमादिषु तु शासो य उ तस्येत्यवयवयोगो निज्ञात इति नेयं व्याप्रियते । स्थानेऽन्तरतमः ॥११॥४७॥ अन्तरः प्रत्यासन्नः । स्थाने प्राप्यमाणानामन्तरतम एवादेशो भवति । श्रान्तयं च शब्दस्य स्थानार्थगुणप्रमाणतः । स्थानतः-लोकाग्रम् । “स्वेऽको दी:"[ ८८ ] इति कण्ठय एवाकारो दीर्भवति । अर्थतः-वतण्डस्यापत्यं स्त्री 'वतण्डात्"[३/११६७] इति यम् । तस्य "स्त्रियामु" [३।१९८] इत्युप् । वतण्डी चासौ युवतिश्च वातण्ड्ययुवतिः । “पोटायुवतिस्तोक'' [॥३।६०] आदि सूत्रेण यसंज्ञः सः, "स्त्र्युक्तपुंस्क" [३/१४६] श्रादिना पुंवद्भावः प्रातो "जातिश्च" [४।३।१५३] इति प्रतिषिद्धः "पुंवद्यजातीयदेशीये" [४/३/१५४] इति । अर्थतो वातण्ड्यशब्दो भवति । गुणतःपाकः । त्यागः । अल्पप्राणस्य घोषवतस्तादृश एव । प्रमाणतः-अभुष्मै । अमूभ्याम् । प्रस्य प्रः । दीसंज्ञकस्य दीः । स्थान इति वर्तमाने पुनः स्थानग्रहणं यत्रानेकमान्तर्य सम्भवति तत्र स्थानत एव भवतीति । चेता । स्तोता। प्रमाणतोऽकारः प्राप्त. स्थानतोऽन्तरतमावेकारौकारौ च । तत्र पुनः स्थानग्रहणात्स्थानकृतमेवान्तर्य बलीय इत्येकारौकारौ भवतः । तमग्रहणं किम् ? वाग्धसति । हकारस्य पूर्वस्वत्वे सोष्मसस्सोष्मा द्वितीयः प्राप्तो नादवतो नादवांस्तृतीयः । तमग्रहणाद्यः सोष्मा नादवांश्च स चतुर्थो भवति । रन्तोऽणुः ॥१४॥ उः स्थानेऽण प्रसज्यमान एव रन्तो भवति । लक्षणान्तरेण विधीयमान एवाण विधानबलेन तत्सहायक प्रतिपद्यमानेन रन्तो भाव्यत इत्यर्थः। अकर्तरीति निर्देशात्सर्वादेशो न भवति । कर्ता । किरति । गिरति । द्वैमातुरः । भरतः। शातमातुरः। द्वयोर्मात्रोरपत्यं [ शतमातुरपत्यम् ] 'तस्यापत्यम्' [३।१।७७] इत्यणि परतो "मातुरुल्संख्याऽसम्भद्रादेः' [३।११३०४इत्युकारादेशः । उरिति किम् ? गेयम् । पन्थाः । अणिति किम् ? मातापितरौ । सौधातकिः। अानङ्गकङौ संघातावेतौ । नाणौ । महर्षिरित्यत्र द्वयोः स्थाने एप कथं रन्तः ? यो हि द्वयोस्तानिर्दिष्टयोः स्थाने भवति सोऽन्यतरेणापि व्यपदिश्यते । नरस्य पुत्रः । नायाः पुत्रः । ऋकारलकारयोः स्वसंज्ञोक्ता । तेन तवल्कारः। कथं लन्तत्वम् ? रन्त इति लणो लकाराकारेण प्रश्लेषनिर्देशात् प्रत्याहारग्रहणम् । तेनादोषः। १. स्थाने इग्भूतो जि-मु०। २. प्रत्यायनावसरो वा अ०स०। ३. उस्तस्य मु०। ४. "रन्तोऽणुः" सूत्रारम्भसामय नेत्यर्थः । ५. अनेनेति शेषः। ६.-पत्यं शतमातृणामपत्यं तस्या, अ०, ब०, स.। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy